न्याय्यं वर्त्म शिश्रिये प्रजाः परिपालयन् मरुत्तो नाम क्षितिपतिः। जनकेऽवीक्षिते महीराज्यश्रियं प्रत्याचख्युषि , पितामहः करन्धमः पौत्रममुं राजपीठेऽभिषिषेच।
निनायुर्यमसादनं दश मुनिकुमारान् पातालतलादुत्थायौर्वाश्रमपदं प्रविष्टाः केचन फणधराः क्रूरदंशनैः। न चक्रुर्मतिं तदुग्रदण्डने मुनयः, प्रभवन्तोऽपि स्वब्रह्मतेजसा तान् विषधरान् भस्मीकर्तुं, 'नैषोऽस्माकं दण्डनाधिकारः' इति मन्वानाः। उपश्रुत्य चेदं दारुणमुदन्तं प्रजज्वाल कोपेन नृपतिः। उरगकुलमुन्मूलयिषया संवर्तकाख्यं दिव्यास्त्रं सन्दधे।
त्रस्तास्तदस्त्रतेजसा नागलोकोद्गता भयानकाः सर्पास्तत्क्षणमेवावीक्षितं शरणं जग्मुः, प्राणाभयदानं च ययाचिरे। वितीर्य च तेभ्योऽभयं स राजर्षिः स्वसुतमुपसृत्य “प्रतिसंहरैतदस्त्रम्” इत्यन्वशात्।
प्रत्युवाच ततो मरुत्तः - “तात, अदशन्निमे दुरात्मानो दश मुनिदारकान्। गरलाक्तानि चाकार्षुराश्रमगतानि जलस्थानानि। आततायिनामेतेषां निबर्हणं हि मे नृपस्य प्रथमो धर्मः। तस्मान्मा स्मात्रान्तरायं त्वं जीजनः” इति।
व्याजहार चावीक्षितः - “शरणागतपरित्राणं किल मे व्रतम्। यस्तत्र कण्टकायते तमहं निहन्मि” इति।
एकः प्रजापालनाय बद्धपरिकरोऽपरस्तु शरणागतत्राणदीक्षितः। पितापुत्रौ तौ स्वधर्मरिरक्षिषया मिथः सम्प्रहर्तुं समनह्येताम्। तदवलोक्य भृग्वादयो महर्षयस्तत्राविर्भूयावोचन् - “उज्जीवयन्त्विमे नागा मुनिबालकान्, प्रतिसंहरन्तु च गरलम्। तेन ते प्रजापालनव्रतस्य सिद्धिर्भविष्यति। तस्मान्नालं नागकुलनिर्मूलनेन। प्रतिसंहरत्वस्त्रं मरुत्तो येन ते पितुः शरणागतरक्षणव्रतमपि पारं गमिष्यति” इति।
ततो महर्षिशासनाद्विषमुपसंहृत्य मुनिदारकान् प्राणैः समयोजयन् पन्नगाः। भक्त्या ननाम गुरुचरणौ मरुत्तोऽपि, आशीर्भिश्चैनमन्वग्रहीदवीक्षितः।