अन्तस्साक्षिविवेकः
मूर्ध्नि पुटिकामधिरोप्यैका पन्थानं बभ्राम पलितकेशी। अत्रान्तरे समाजगाम कश्चित्तुरङ्गारूढः। उवाच तमालोक्य सा जरती—“अङ्ग! निक्षिप्यतां मदीयेयं पुटिका वाजिपृष्ठे, प्राप्यताञ्चामुमुपकण्ठं ग्रामम्। खिद्येऽहं गमनभारेण। व्यपगच्छेच्चेदिदं गौरवं लीलयैवाध्वानं लङ्घयेयम्” इति।
अवोचदथ स सादी—“द्रुतमेवामुं ग्राममधिगच्छेयमहम्। चिरात् त्वमभ्युपेया मन्थरगत्या। त्वदुदीक्षणेन किं मया कालयापनं विधेयम्? न खल्वेतत् सुशकम्” इत्युदीर्य तुरङ्गमचूचुदत्।
उदियाय प्रतस्थुषस्तस्य हृदये कश्चिद्वितर्कः—'अनर्घाणि नूनमस्या वस्त्रपुटिकायां धनानि शेरते। सुकरं च तानि मयापहर्तुम्' इति। प्रतिनिवृत्य च स तां जरतीमवोचत्—“पुटिका दीयताम्। प्रापयिष्याम्यहमेवैनाम्” इति।
“अलमायासेन। प्रदीयते न खलु मया पुटिका। स्वमार्गं गच्छ” इति निजगाद स्थविरा।
“अयाचथाः खलु प्राक् पुटिका ग्रामं नेयेति। प्रतिषिध्यते किमर्थं सम्प्रति तस्याः प्रदानम्?” इति पप्रच्छ साश्चर्यं हयसादी।
“अङ्ग! यस्त्वामन्वशात् 'स्थविरायाः पुटिकामवाप्य प्रद्रव' इति, मामप्यन्वशात्स एवान्तरात्मा—'मा स्म प्रदा अस्मै प्रतारकाय पुटिकाम्' इति। उद्वक्ष्यामि तदहं स्वयमेव मदीयं भारम्। कृतं साह्येन ते” इत्युवाच सा पलितकेशी।
'अबोधि कथं नु खल्वनया मदीयं छद्मचिन्तनम्' इति विमृशन्नपाक्रमीत्तस्मात्स्थानात्स विवर्णवदनो हयसादी।