235 
 237

स्वदेशानुरागोत्कर्षः

पुस्तकावलोकनव्यसनी कश्चिदादित्याभिधानस्तरुण आर्यावर्तीयग्रामे न्यवसत्। वैदेशिकसमृद्धिं निसर्गसुषमां च ग्रन्थेभ्योऽवगम्य पारेसमुद्रं जिगमिषोरमुष्य लालसा पप्रथे। द्रविणसञ्चयं तन्निमित्तं विधाय यात्रासज्जामप्यसौ चकार।

अन्येद्युः केनचित्परिव्राजकेनायं समीयाय। सम्भाषणप्रस्तावे वैदेशिकं वैभवं स मुनये शशंस। मन्दस्मितपूर्वकममुष्य वचांसि निशम्य तापसः स्वदेशमहिमानं प्रस्तौति स्म। तयोर्मिथो वाग्युद्धे समुपस्थिते मुनिस्तं जगाद - “आसमन्तं भारतवर्षमेकदा परिभ्रम्य निवर्तस्व, पश्चादावां सङ्गंस्यावहे” इति।

“विदेशगमनायैवायं मयार्थसञ्चयो विहितः” इत्यसौ प्रत्युवाच।

“अलमुद्वेगेन! भारतभ्रमणार्थमहं ते द्रविणं वितरामि। परं यदि यात्रावसाने मातृभूमिरियमतुलनीयेति सिध्येत्, तर्हीदं धनं त्वया प्रत्यर्पणीयम्” इति तापसो व्याजहार। तथेत्यसावूरीचकार।

आरब्धभारतयात्रोऽसौ दिगन्तान्बभ्राम। पर्यटन्नयं विविधजनपदेषु प्राक्तनदेवालयान् नैसर्गिकं सौन्दर्यञ्च वीक्ष्य शनैः शनैर्भारतवर्षेऽनुररञ्ज। 'अहो! कूपमण्डूक एवाहमासम्' इति तदानीमस्य चेतसि प्रत्यय उदियाय।

तदनन्तरमसौ विदेशमपि जगाम। तत्राप्येकैकं प्रदेशं ददर्श। 'भारते यच्छिल्पसौन्दर्यं पावित्र्यं च विद्यते, तन्न विदेशेषूपलभ्यते' इत्यन्ते तेन निरणायि।

स्वदेशं प्रत्यागतोऽसौ तापसमुपेत्यावादीत् - “अहं खलु पराजितः। अतो मया धनं प्रत्यर्पणीयं ननु? परं तन्निमित्तं कश्चित्कालोऽपेक्ष्यते” इति।

तदा विहस्य मुनिर्जगाद - “न मे धनेन प्रयोजनम्। तद्द्रविणमस्मद्देशहितायैवोपयुज्यताम्। आवयोर्मातृभूमिर्भारतवर्षमतुलनीयममूल्यं चेति त्वयावगतम्। एतावदेव मे वाञ्छितम्। मातृभूमिविषये तवाभिमानः सर्वदा विजृम्भताम्” इति।

235 
 237