तपोधनं कञ्चिद्ददर्श कोऽपि क्ष्मापतिः। तमुपगम्य साष्टाङ्गं प्रणिपत्य चैवं पप्रच्छ— “भगवन्! निखिलाभिरानुकूल्यसम्पद्भिः परिपूर्णोऽप्यहं न लभे काञ्चिन्निर्वृतिम्। चिन्तोद्वेगैकाकितादिभिरान्तरज्वरैर्गाढमुपद्रुतः सन्तप्ये। कथममीषां निवृत्तिरिति न जाने” इति।
प्रत्याह तं स यमी— “समाधास्ये ते संशयम्। ततः प्राक्, जवेनाभिद्रुत्य नातिदूरे वर्तमानममुं महीरुहमुपस्पृश्य निवर्तस्व। गमनमागमनं च त्वया सवेगमेव विधातव्यम्” इति।
तन्निशम्य सद्य एवोत्थाय तं तरुं प्रत्यभिदुद्राव स नृपः। तमुपस्पृश्य च सत्वरं निवर्तमानः पुनरपि तमेव तापसमुपाजगाम। तीव्राभिधावनजनितायासतः स मुहुर्मुहुर्दीर्घमुच्छश्वास।
तमवदत् स योगी— “किमित्ययं दीर्घश्वासोच्छ्वासानुबन्धः? एनं निरुन्द्धि” इति।
“वेगेनाधावं खल्वहम्! अत एवायमायासोपजनितः श्वासवेगः” इति जगाद नृपः।
“ननु परिसमाप्तं ते धावनम्? तत्किमर्थमयं श्वासवेगो न प्रशाम्यति?” इत्यनुयुयोज मुनिः।
“धावनोपरमेऽपि कियन्तं कालं तस्यानुवृत्तिर्नैसर्गिकी खलु” इति स आह।
“स चेन्निवारणीयः, किं तर्हि कर्तव्यम्?”
“धावनमेव तावन्निवारणीयम्” इति।
“साधु व्याहृतं त्वया। इत्थमेव खलु वयमपि तृष्णाहङ्कारादीनां पृष्ठतोऽजस्रमनुधावामः। तत एव जीवनेऽशान्त्यतृप्त्यादयः प्ररोहन्ति। यावदाशादीनामनुधावनं न परित्यजेम वयम्, तावदशान्त्यादीनामुपशमनं नैव शक्यते। परिणामं निरोद्धुकामेन तन्मूलमेव खलून्मूलनीयम्” इति विवृण्वन् स विररामोपदेष्टा।