59 
 61

कीर्तिलब्धिनिदानम्

कश्चिद्विनेयः स्वाध्यायोपशमे गुरुमासाद्य सविनयमित्थं व्यजिज्ञपत् - “भगवन् ! युष्मदन्तिके सकलविद्यास्थानान्यध्यगिषि, परं तु कीर्तेरध्वा किमात्मक इति न मे चेतसि नितान्तं प्रस्फुटति” इति ।

तच्छ्रुत्वा गुरुः प्रत्याह स्म - “यद्येवम्, अमुष्य नरपतेः संसदमुपसर्प । स एव त्वां प्राशस्त्यप्राप्तिपथमुपदेक्ष्यति” इति ।

अथ स गुरोरादेशमाकर्ण्य राजकुलं जगाम, यत्र तस्मिन् समये नाट्यसङ्गीतकलाप्रपञ्चो विजृम्भते स्म । तदालोक्य विस्मितमनाः स विनेयो राजानमुपेत्य स्वागमनप्रयोजनं विज्ञाप्य साक्षेपं पप्रच्छ - “विषयभोगेषु निमग्नस्त्वं कथं नाम मह्यं कीर्तिलब्धिनिदानं ज्ञापयितुं प्रभवेः?” इति ।

नराधिपस्तु न किञ्चिदपि प्रत्युवाच, केवलं स्मित्वा व्याजहार - “अद्य तावत् त्वमागन्तुकशालायां क्लमापनोदं कुरुष्व । प्रातर्नौ सङ्गमो भूयात्, तदालापश्च सम्पद्यताम्” इति ।

इत्यादिष्टो राजपुरुषैरसौ वसतिगृहं प्राप्यत । तच्च गृहं सर्वसमृद्धिसम्पन्नम्, यत्र मृदूत्तरच्छदं शयनम्, सुखस्पर्शी समीरः, नानाविधानि फलमूलभक्ष्याणि, आज्ञाकारिणश्च परिचारका इत्येवमादयः सर्वे भोगाः सुलभा आसन् । अध्वखिन्नः स विनेयः शय्यामासाद्य निद्रामुपागच्छत् ।

यावदेव स निद्राति तावदेव स्वमूर्धभागे केशमात्रालम्बनेन तन्तुनावलम्बितमेकं निशितमसिं ददर्श । ततः स इत्थं व्यमृशत् - ‘अयं चेदसिर्ममोपरि निपतेत्, तदा ध्रुवं मे पञ्चत्वगमनम्’ इति । अत एव भीतोऽसौ निमेषमपि नयनयोर्निमीलनं कर्तुं न शशाक, अपि तु समस्तां निशाममुमेवासिं विलोकयन्निशामनैषीत् ।

व्युष्टायां तु रजन्यां राजा स्वयं तं विनेयं सन्दृष्टुमाजगाम, पप्रच्छ च - “अपि ते वसतिगृहे सर्वं सौविध्यमासीत्? कच्चित् त्वया रात्रौ सुखेन न्यद्रायि?” इति ।

अथ विनेयः प्रत्यवदत् - “देव, कुतो मे सुखस्वापः? उपरि लम्बमानस्यासिपातत्रासेन सन्त्रस्तोऽहं क्षणार्धमपि निद्रां नालप्सि” इति ।

तदाकर्ण्य भूपतिः स्मित्वा प्रोवाच - “पश्य, परितः सर्वविधेषु सुखोपकरणेषु सत्स्वपि ते चेतोवृत्तिस्तत्र न प्रावर्तत, प्रत्युत तस्मिन्नेवासौ समाहिताभूत् । एवमेव भोगविलासमयेऽपि परिजने वर्तमानस्य ममाप्यवस्था । सर्वत्र विषयसौख्येषु समुपस्थितेष्वपि मम दृष्टिः सदैव स्वधर्मानुष्ठाने समाहिता भवति । यस्तु स्वकर्तव्येऽप्रमत्तः समाहितचित्तो भवेत्, स एव सर्वत्र कीर्तिं लभेत । इदमेव प्राशस्त्यप्राप्तेः परमं निगूढम्” इति ।

59 
 61