पुरा कस्मिंश्चिज्जनपदे सुरसदनविरहः तत्रत्यान् जनान् भृशं दुनोति स्म। “कथमस्माकं संवसथे त्रिलोकीनाथस्य मन्दिरं नास्ति” इति खिद्यमानैः पौरैः “नूनमत्र भव्यः प्रासादः कारणीयः” इति मतिश्चक्रे। अथ तस्य निर्माणाय अर्थसञ्चिकीर्षया ग्रामवृद्धाः पञ्च धुरन्धराः प्रतिभवनं चेरुः। जानपदाश्च श्रद्धया यथाविभवं द्रविणं विततेरुः।
तस्मिन्नेव ग्रामे धनेशसन्निभः कश्चित् श्रेष्ठी न्यवसत्। स खलु कोटिश्वरः। अथ कार्यधुरां वहन्तः प्रमुखाः श्रेष्ठिनो निकेतनमुपेत्य “सुरमन्दिरप्रतिष्ठापनाय साहाय्यं वितर” इति तमयाचिषत। तदा स पप्रच्छ – “चेदहं भूयिष्ठं वित्तराशिं समर्पयिष्यामि, तर्हि मदीयं नाम प्रशस्तिपट्टिकायामुत्कीर्यते न वा?” इति। “नास्मिन्नर्थेऽद्यावधि कोऽपि राद्धान्तः समजनि” इति तेषां धुरीणेन प्रत्यवादि। “तर्हि विमृश्यताम्, पुनरागम्यतां च” इति सार्थवाहो बभाषे।
तस्यामेव रजन्यां समवेता ग्रामवृद्धाः श्रेष्ठिनो वृत्तान्तं पर्यलोचयन्। अन्ते च “यो नाम प्रभूततमं वित्तं दास्यति तस्यैवाभिधानं मन्दिरभित्तौ अङ्कयिष्यते” इति समयं चक्रुः। परेद्युः कार्यवाहकाः धनिकमुपेत्य “यः सर्वाधिकं ददाति तस्यैव नाम लेखिष्यते” इति रात्रिवृत्तं न्यवेदयन्। सोऽपि तुष्टो लक्षमितं रूप्यकं व्यतारीषीत्।
अर्थसङ्ग्रहकर्मणि परिसमाप्ते, दातॄणां नामावली सज्जीकृता। सा च श्रेष्ठिना व्यलोकि। तस्यां कस्यचिद् अकिञ्चनस्य कृषीवलस्यापि नामधेयमासीत्, येन रूप्यकसहस्रं विश्राणितम्। तदालोक्य स विस्मितमना व्यचिन्तयत् – “अहो! कोटिशो वित्तं बिभरामि, तथापि मया लक्षमात्रमुत्सृष्टम्। अयं तु वराकः कर्षकः कृच्छ्रजीविकां निर्वहन्नपि सहस्रं प्रायच्छत्। नूनमस्माद् मदीयादर्थराशेस्तदीयं दानशौण्डत्वमेव गरीयः। अर्थतः अहमेव ईश्वरोऽस्मि, किन्तु परमार्थतस्तु अयमेव धन्यः। अतो मन्दिरभित्तौ अस्यैव नाम प्रशस्यताम्” इति।
विमृश्यैवं स कार्यवाहकान् “मम नाम मा अङ्कयत, अपि तु तस्यैव दरिद्रस्य कर्षकस्य नाम शिलायां कीर्त्यताम्, तस्यैव त्यागः महीयान्” इति निदिदेश। तदाकर्ण्य विस्मितचेतसो जनाः “उभयोरपि नामनी अङ्कयेताम्” इति निरणयन्॥