79 
 81

श्रेयःकर्मविवेकः

आसीत्पुरा कोऽपि नरपतिर्देवभक्तिपरायणः। तेन निर्मापितान्यसंख्यानि देवतायतनानि। तदीयां धर्मश्रद्धां लोका बहुप्रकारं प्राशंसन्। तस्य संदर्शनाय समुपागतास्तु भूयांस इत्थं न्यगदन् – “यद्देवो धर्मकार्याणि समाचरति तेन देवस्य नाकलोकप्राप्तिरसंशयमेव। अहो पुण्यात्मता देवस्येति।” इदमाकर्ण्य स भूपतिः परितोषमतीव लेभे।

लोकैः श्लाघनीयोऽहमिति प्रबलस्तस्याभिलाषोऽवर्तत। अत एव यो यस्तमभ्यगच्छत्, तस्य तस्य पुरस्तात् स आत्मकृतानां कर्मणां वृत्तान्तं समुपस्थापयत्। तदाकर्ण्य ये तं प्रास्तुवन्, तान् स बहुधा समाद्रियत। अमुना हेतुना तद्दिदृक्षयागताः सकला अपि तस्य स्तुतिमेवातन्वन्।

अथैकदा कश्चिद्यतिस्तस्य समीपं समाजगाम। नृपस्तस्य पुरतः स्वानुष्ठितानि पुण्यानि विस्तरेण अशिश्रवत्। इदं निभृतमाकर्ण्य स यतिः प्रत्यवादीत् – “त्वया यान्याचरितानि कर्माणि, तानि सर्वाण्यपि निष्प्रयोजनान्येव। तेभ्यस्त्वं न किञ्चिदप्यवाप्स्यसि।” इति।

एतन्निशम्य नृपः परं विस्मयमापेदे, पप्रच्छ च – “सकलोऽपि जनो निगदति यन्मया नाकलोकसौख्यमवाप्स्यते इति। भवांस्तु भाषते न किमपि त्वया लप्स्यते इति। कथमिदं युज्यते?” इति।

यतिः प्रत्युवाच – “ये त्वां नाकसुखमवाप्स्यसीति व्याजह्रुः, ते सर्वेऽपि त्वां संस्तुत्य किञ्चित्प्रयोजनं लिप्सव आसन्। अतस्ते तथाविधामस्तुवन्। त्वं पुनः फलकामनाप्रणोदितः कर्माणि व्यधाः, यानि श्रेयःकर्मसु नैव गणनामर्हन्ति।”

“कानि नु खलु श्रेयःकर्माणि नाम?” इति राजा तमन्वयुङ्क्त।

तदा स यमी निजगाद – “फललिप्सामन्तरेण यान्याचरितानि भवेयुः पुण्यानि, तान्येव श्रेयःकर्माणि कथ्यन्ते। इहलोके श्लाघां परत्र च नाकसुखमभिलषता त्वया यानि कर्माणि व्यधायिषत, तानि यद्यपि नाऽनिष्टफलानि स्युस्तथापि नूनं सत्फलं न प्रसुवीरन्। अतः यत्किमपि विधीयते तत्सर्वं निरासक्त्या भाव्यम्। येन लोकस्योपकारः सिध्येत्, तादृशान्येव कर्माणि समाचरेः। तानि विलोक्य यदि कश्चित्त्वां स्तुवीयात्, तथापि त्वया साम्यबुद्धिना स्थातव्यम्। यैः कर्मभिर्मनसात्मनोश्च परिष्कारो जायते, तान्येव प्रशस्तानि। यस्माद्धि चित्तविकृतिरुदियात्, न तत्किल श्रेयस्करम्। श्लाघालिप्साऽपि हि विकृतिरेव। तस्मादेतादृशीं स्पृहां विहाय विशुद्धेन चेतसा प्रजाश्रेयसे कर्माणि विधेहि। तेन ते श्रेयः सेत्स्यति।” इति।

अमुना वचसा राज्ञो ज्ञानचक्षुरुन्मीलितम्। स श्रेयःकर्मणि कृतसङ्कल्पस्तं यतिं भक्त्या प्रणिपपात।

79 
 81