मोहान्धतमसप्रध्वंसः
कश्चिदन्तेवासी कदाचिदुपाध्यायमुपसद्य पप्रच्छ – “भगवन् ! इह खल्वस्माभिराम्नाया अधिजगिरे, प्रज्ञा च समुपार्जिता । मम त्विदं जिज्ञास्यम् – एतस्माज्ज्ञानलवात् किं नाम फलमवाप्यते ? वृत्तिलाभो, जनसम्मानश्चेत्येतावदेव वास्य परमं प्रयोजनम् ?” इति । तदाचार्यस्तमाबभाषे – “नहि तावन्मात्रम् । इतः परतरमपि प्रयोजनं विद्यते, यत्तु कालविप्रकर्षेण स्वयमेव ते बोधगम्यं भविता” इति । एवमुक्तः स शिष्यस्तूष्णीम्भूय निजाश्रमपदं प्रत्याजगाम ।
अथान्यस्मिन्नहनि स गुरुस्तमाहूय कमपि कोशं हस्ते प्रदाय जगाद – “अमुं कोशं मम गर्भगृहे निधेहि” इति । शिष्यस्तं कोशमादाय गुरोर्गर्भगृहं प्रविवेश । प्रविशन्नेव स वेपथुग्रस्तः प्रतिनिवृत्य भीतभीत उवाच – “गुरो ! तत्र भवतो मञ्चस्योपरि कश्चिद्भुजङ्गमस्तिष्ठति !…” इति ।
तदाकर्ण्य गुरुः स्मयमानो व्याजहार – “मम शयनगृहे कुतः सर्पस्य प्रवेशसम्भवः ? भ्रान्तिरियं ते । यदि नामाकस्मादागतोऽभविष्यत्, तर्हीयता कालेन नूनमपसृतोऽभविष्यत् । अथापि, अहमेकं मन्त्रमुपदिशामि, तं जपन्नेव व्रज । तेन भुजङ्गमस्तस्मान्निकेतादपयास्यति” इत्यभिधाय कमपि मन्त्रं तस्मा उपादिशत् । शिष्योऽपि तं मन्त्रं जपन् गर्भगृहं पुनरगात् । स च पन्नगस्तदानीमपि मञ्चोपरि शयान एवासीत् । ततोऽसौ भीत्या प्रतिनिवृत्य तस्योरगस्यानपयानं गुरवे व्यजिज्ञपत् ।
“एवञ्चेद्दीपमादाय गच्छ । तत्प्रभया दृष्टः सोऽवश्यमेव पलायिष्यते” इत्यादिक्षद् गुरुः । शिष्यो दीपमेकं समुपादाय गुरोर्गर्भगृहं प्राविशत् । तत्र च प्रदीपस्य भासा तेन ददृशे यन्मञ्चोपरि स्थिता रज्जुर्न खलु विषधरः । ततो गर्भगृहान्निर्गत्यासौ गुरवे सर्वं वृत्तान्तं न्यवेदयत् ।
तच्छ्रुत्वा गुरुणाभिहितम् – “वत्स ! तमसावृते देशे रज्जुरेवोरगत्वेन प्रत्यभात् । यदैव तु प्रदीपस्त्वया तत्रानीतस्तदैव वस्तुयाथात्म्यं त्वयाधिगतं, विपर्ययश्चापास्तः । एवमेव संसारेऽपि । अविद्यया समुद्भूतमोहान्धकारवशादस्मासु नानाविधा विभ्रमाः प्रादुर्भवन्ति, ये च नः क्लेशयन्ति बहुप्रकारम् । तेषां समुन्मूलनायान्तरः प्रज्ञाप्रदीप उद्दीपनीयः । स चेदुद्दीपितस्तर्ह्येव ज्ञानरश्मिभिर्मोहान्धतमसं निरस्यते । न चैतदान्तरप्रदीपोज्ज्वलनं सुकरं कर्म । नहि सर्वे तस्योज्ज्वलने प्रभवन्ति । अतः सकलभ्रमपाशसमुच्छेदाय, आत्मज्योतिषश्चाधिगमाय निरन्तराभ्यासयोग एवास्त्येका गतिः ।…”