पुरा कोऽपि केशवभक्तिमान् भगवतश्चिन्तनार्चनयोः सततमनुरक्तो बभूव। तदीयया च भक्त्या परितोषितमनाः स भगवान् केशवः कदाचित्तस्य पुरतः प्रादुरभूत्। तमालोक्य परमानन्दनिर्भरः स भक्तः प्रमोदाश्रूणि विमुञ्चन् दण्डवत्प्रणामं तस्मै चकार।
अथ स्मितवदनः कृष्णः समन्तादवलोकयन्निदमाबभाषे - “अहो, अतिरमणीयं खल्विदं ते सदनम्।” “देव, नूनमिदं त्वदीयमेव धाम” इति सविनयं भक्तो न्यवेदयत्। तदा सविस्मयं तस्य वदनमीक्षमाणस्तं जिज्ञासमानश्च देवः पप्रच्छ - “एवमस्तु, तर्हि वद, तवेयं भूसम्पदैश्वर्यमानप्रतिष्ठादिका कस्य कृते वर्तते?” इति। “अत्र का नाम पृच्छा? यत्किञ्चिन्ममास्ति, तत्सर्वं त्वदीयमेव” इति दृढविश्वासेन भक्तो न्यगदत्।
अथ भक्तस्य पार्श्वे काचन मनोहरा देवप्रतिमा विराजते स्म। तामेव निर्दिश्य देवोऽवोचत् - “इयमपि प्रतिमा मामक्येव, ननु?” तदा भक्तः प्रत्युवाच - “नैतत्, इयं तु न त्वदीया, अपि तु ममैव।” तच्छ्रुत्वा विस्मयं नाटयन् देवः पर्यपृच्छत् - “अधुना हि त्वयाभिहितं यत्सर्वं वस्तुजातं मदीयमिति। पुनरिदानीं भणसि यदियं प्रतिमा तु ममैवेति। कथमिदं परस्परं सङ्गच्छताम्?” इति।
ततः स भक्तः प्रश्रयेण जगाद - “यद्यत्किञ्चिन्मत्सविधे विद्यते, तत्सर्वं त्वत्प्रसादादेव मयासादितम्। अतो निःसंशयं सर्वं तव स्वमेव।” “किन्तु कथमियं प्रतिमा मामकी न भवेत्?” इति भगवान् वाचमन्तरेणापृच्छत्। “देव, एनं विग्रहं नित्यशोऽहमर्चयामि। तदीययार्हयैव प्रीतस्त्वमिदानीं मम पुरः साक्षात्कृतोऽसि। भविष्यत्यपि त्वत्कृपापात्रतां ममाक्षुण्णां विधातुमिदमेव मे परायणम्। अत इयमेका प्रतिमा मदीया, शेषं सर्वं तु भवदीयमेव” इति भक्तः प्रत्यभाषत।
“सत्यम्, अहं हि भक्तिपराधीनः। त्वया भक्त्याहं वश्यतां नीतोऽस्मि। अतस्त्वदधीन एवाहम्” इत्युदीर्य तमाशीर्भिरभिवर्ष्य स भगवान् तत्रैवान्तर्दधे।