दिक्प्रणामाञ्जलिः
कस्मिंश्चिदाश्रमपदे कश्चिदाचार्यः संयतात्मा प्रत्यहं प्रत्यूषे दिशामष्टकं प्रणन्तुमुपचक्रमे।
अथैकदा कश्चिदन्तेवासी तमुपसद्य सविनयं पप्रच्छ – “गुरो, भवद्भिर्यदेतत्प्रत्यहं दिशामष्टकं प्रणिपत्यते, किमिदं दिक्पालान् समुद्दिश्यैव ?” इति। इति पृष्ट आचार्यः प्रत्युवाच – “दिक्पालानेवामुष्मिन् कर्मणि समुद्दिशामीति धियाऽपि न कश्चिद्दोषः। परमार्थतस्तु मदीयाया अस्याः प्रपत्तेः प्रयोजनमन्यदेव किञ्चित्।”
“कोऽसौ तर्हि स विशेषोऽभिप्रायः?” इति कौतूहलाविष्टोऽन्तेवासी पुनरनुयुयोज।
आचार्येण निगदितम् – “प्राची तावत् तौ पितरौ संज्ञापयति, याभ्यामिदं जगदालोकितुमानीताः स्मः। प्रतीची च तान् दारापत्यादीन् बोधयति, ये जीवने समधिगम्यन्ते। अत उत्पत्तिहेतवे आश्रयभूताय च मया प्रह्वीभावोऽयमनुष्ठीयते।”
“अवाच्युदीच्योस्तु कः खल्वर्थः सङ्केत्यते?” इति शिष्योऽनुपप्रच्छ।
“अवाची दिगात्मानुशासकं गुरुं द्योतयति, उदीची पुनर्मित्रबान्धवादिगणम्।”
“ऊर्ध्वाधराभ्यां दिग्भ्यां कतमः पुनर्विशेषः स्मार्यते?”
“अधरा दिक् तावद् भूमेः सङ्केतः, यास्मान्धारयति। सा च तान्सर्वान् सूचयति येऽस्मत्परिचर्यायां साहाय्ये च प्रयतन्ते। अतः सहायकसखिप्रभृतिभ्यः कृतज्ञतां निवेदयितुमधरायां दिशि प्रणामो विधीयते। ऊर्ध्वा पुनराकाशं द्योतयति य उत्कृष्टं पदं प्रापयेत्, तादृशं श्रेष्ठं पथप्रदर्शकम्। आत्मतत्त्वस्य च तत् स्मारकम्। अत एव व्योम्नेऽपि मे प्रणामाञ्जलिः।”
“मूढविश्वासेन केवलं भवन्तो दिक्पालान् प्रणमन्तीति मया प्रागन्वभूयत।”
“न खलु दिक्पतिप्रणामो मूढश्रद्धा, तिष्ठतु तावदेतत्। वस्तुतस्तु येभ्यो येभ्यो मयोपकारोऽधिगम्यते, तेभ्य एव कृतज्ञतां ज्ञापयितुं मया प्रतिदिनमिदं प्रणम्यते। ईदृशं कृतज्ञताज्ञापनं हि नः प्रथमं कृत्यम्।”
“अद्य मया विदितं यद् दिशां प्रणामस्येदृशं विशिष्टं प्रयोजनमस्तीति। अतः प्रभृत्यहमपि दिशः प्रणंस्यामि” इत्यवोचदन्तेवासी।