पुरा कोऽपि नृपतिर्मृगयाव्यसनप्रसक्तो गहनं वनं विवेश। तत्र च दैवयोगात्पथो भ्रष्टः सान्ध्यरागेण रज्यमाने गगने कस्यचन यतेराश्रमपदं ददर्श। तं च यतिवर्यमभ्यर्थ्य तामेकां यामिनीं तस्मिन्नेवाश्रमपदे उवास।
निशायां तु निद्रां न लेभे स भूपालः। अथ तस्य चेतसि विचिकित्सा समुदपादि - ‘को नु विशेषो मयि चास्मिंश्च यतौ?’ इति। इत्थं बहुशो विमृशन्नपि न स तस्य प्रश्नस्योत्तरं लेभे।
प्रत्यूषे सरिति कृतस्नानविधिः स यतिः समाधातुमुपचक्रमे। अमुं नृपतिरुपसृत्यैवमब्रवीत् - “भगवन्! गतायां रजन्यामनिद्रयैव मया क्षपितः कालः। अगणनीयाश्चिन्तातरङ्गा मन्मानसमलोडयन्। तेषु चायं प्रमुखः संशयः यद् आवयोरन्तरं किमिति। तत्पार्थक्यं बोधयितुं प्रभवति भवान् किम्?” इति।
“अत्र का नाम विचिकित्सा? किञ्चिदध्वानं सह चरावहै। तत्रैव तेऽहमिदं तत्त्वं प्रकाशयिष्यामि” इत्यवोचद् यतिः।
इत्युक्तवति तस्मिन् द्वावपि प्रातिष्ठेताम्। अतीयाय सुमहदन्तरम्, अतिक्रान्ताश्चाभवन् बहुला ग्रामसीमानः। अन्ते धैर्यच्युतो नृपः सोढुमक्षमः प्राह - “अहो! इतः परमपि कियन्तं पन्थानमेवं गन्तव्यम्? आवयोः पार्थक्यं किमिति भवता कथं नाभिधीयते?” इति।
“पुरस्तादेव व्रजाव। निवर्तनाकुलतयालम्। अहं त्वनारतमेवं पुरो यास्यामि। भवानपि मामनुगच्छत्विति” स्मयमानो योगी जगाद।
“कथमिवैतत् सम्भवेत्? अवश्यं मया निजं हर्म्यं प्रत्यागन्तव्यम्। विद्यते मे राज्यभारः, सन्ति दाराः सुताश्च, तथान्यानि नित्यानुष्ठेयानि कृत्यानि। तान्येतानि समस्तानि विहाय केवलं भवन्तमनुसरितुं नाहमुत्सहे” इति नृपतिः प्रत्युवाच।
“अद एवाऽऽवयोरन्तरम्। अहं हि सर्वं परिहाय प्रव्रजितोऽस्मि। ममाप्यासंस्तथाविधानि बहूनि लौकिकानि बन्धनानि। तान्यहं समूलमुन्मूल्य पुरस्तात् प्रास्थिषि। भवांस्तु तैरेव पाशैर्नियन्त्रितः” इत्यभिधाय पुरस्तात् पदविन्यासमकरोत् स यतिवरः।