विशुद्धिचतुष्टयम्
बभूव कश्चिदाश्रमः, यत्रानेके तापसा बभूवुः। अथ कदाचिदेकस्तत्रत्यं देशिकं दिदृक्षमाणो नृपतिरेकाकी तमाश्रमपदमुपससर्प। प्रणिपत्य च तं देशिकं स नरपतिरिदं न्यवेदयत् — “भगवन्, भवदनुशासनमधिगन्तुमेव मयात्र संप्राप्तम्। कीदृशो नु मे व्यवहारो विधेय इत्यत्रादेशमपेक्षे” इति।
तच्छ्रुत्वा गुरुराबभाषे — “राजन्! वस्तुतस्त्वयि नैर्मल्यं चतुर्विधमपेक्ष्यते” इति। भूपेन “कास्ताश्चतस्रो विशुद्धयः?” इति पृष्टः स पुनरवोचत् — “शारीरिकी, मानसी, आर्थी, आन्तरी चेति।” “आसामधिगमाय मया किमनुष्ठेयम्?” इति नृपः पुनरपि पप्रच्छ।
गुरुः प्रत्यवदत् — “हिंसादुर्बलपीडनश्रमालस्यादिदोषनिवृत्त्या तावत् त्वया शारीरं नैर्मल्यमवाप्यताम्। तदनु मार्दवविनयोपेतां वाचं, दृढमिन्द्रियसंयमं, दर्परोषविवर्जितं चेष्टाचारमभ्यस्यता मानसी विशुद्धिरधिगन्तव्या।”
भूयः पृष्टवते तस्मै स महात्मा इत्थमाचचक्षे — “असत्पथपरिवर्जन-त्याग-दान-वित्तासञ्चय-सत्पात्रविनियोगैर्द्रव्यशुद्धिः सम्पद्यते। अथ प्रजानुरागेण, सर्वत्र समदृष्ट्या, भगवद्ध्यानाभ्यासेन, नित्यात्मनिरीक्षणेन चान्तःकरणनैर्मल्यं साधनीयम्।”
“बाढम्, शिरसा धार्यो मे भवदादेशः” इति सविनयं नृपतिरुवाच। तमाश्वासयन् गुरुः पुनरगदत् — “राजन्! मयोपदिष्टमिदं विशुद्धिचतुष्टयं त्वयि सर्वथा नास्तीति न मेऽभिप्रायः। मन्ये, तदधिगमाय त्वया चिरं यतितमेव स्यात्। स तु यत्नस्त्वया निरन्तरमनुवर्तनीयः, क्वचित्प्रमादे सति तत्रैव सावधानता विधेया, नैर्मल्यसिद्धिविषये च जाग्रत्ता नैव परित्याज्येति त्वां स्मारयितुमेव मया व्याख्यातः” इति।