95 
 97

अकलङ्कचरितस्य पारितोषिकम्

प्रतिष्ठापयिषुः खलु बेङ्गलूरुमहानगर्यां किञ्चनाभिनवं विज्ञानगवेषणाकेन्द्रं नोबेल्पारितोषिकसमलङ्कृतो रामननामा सुधीमूर्धन्यः। तदर्थं नानावृत्तपत्रिकासु प्रसारितां विज्ञापनां निशाम्य शताधिकाः पदलिप्सवः स्वस्वयोग्यतापत्राणि प्रजिघ्युः।

प्राथमिकपरीक्षणे षडेव विद्यार्थिनो वरयामासुरधिकारिणः। विनिश्चितं च तेषामन्तिमसाक्षात्कारं त्वसौ महाभागः स्वयमेव विधास्यतीति। एतदाकर्ण्य मुमुदुस्ते षडपि, यतो ह्यनेन व्याजेनापि जगद्विश्रुतेन तेन साकं सङ्गमः सेत्स्यतीति।

सुनिरीक्ष्य तेषां षण्णामपि मेधां त्रीनेव पर्यचिनोदसौ विपश्चित्। आदिदेश च स्वभृत्यं सर्वेभ्योऽपि तेभ्यो मार्गाध्वव्ययं दातुम्। ततो जगृहुः सर्वेऽपि विद्यार्थिनस्तत्प्रवासव्ययम्।

अथ परिणतेऽहनि निज-निवेशाभिमुखं प्रतस्थेऽसौ विद्वान्। तदा पथि पार्श्ववर्तिनं कञ्चिद् युवानं ददर्श। तर्कयामास च - नूनमसावेव प्रातः साक्षात्कारायागतो वराकः, विफलमनोरथः सन् पुनरप्यवकाशं लिप्सुर्मामेवात्र प्रतिपालयतीति।

प्रणिपपात च तमुपसद्य स युवा। जगाद तं विपश्चित् - “भो वत्स! नासि त्वमस्मिन् साक्षात्कारे वृतः। न ते पाण्डित्यं पर्याप्नोति। सम्यगधीत्य आगामि-पर्याये प्रयतेथाः” इत्युदीर्य पुरतो गन्तुं प्राक्रमत।

अन्तरे प्रत्यभाषत स युवा - “आर्य! नावकाशप्रार्थनाया इहागतोऽस्मि। भवदीयगवेषणाकेन्द्रेण मे मार्गाध्वव्ययो व्यतारि। परं प्रमादात् सप्तरूप्यकाण्यधिकानि वितीर्णानि। यद्यपि मया तदधिकृतपुरुषाय न्यवेदि, तथापि स तानि न प्रत्यग्रहीत्। तेन ह्युक्तम् - 'इदानीं व्ययपञ्जिकायां सङ्ख्या विलिखिता। ततस्तद्धनं त्वयैव धार्यताम्। मा स्म शुचः' इति। परं तदतिरिक्तं धनं न मे रोचते।”

क्षणमेकं तन्मुखं निर्निमेषं दृष्ट्वा तानि सप्तरूप्यकाणि प्रसारितेन पाणिनादाय स्व-कोशे निदधौ स सुधीः। बभाषे च - “भो वत्स! श्वो दशवादने मां कार्यालये पश्येः” इति निगद्य पुरतो ययौ।

95 
 97