जितेन्द्रियस्य साफल्यम्
प्रथितयशाः कश्चन विपश्चित् कतिपयैरन्तेवासिभिः साकं दिदृक्षुरमुं ख्यातनामानं मौहूर्तिकं प्रति प्रतस्थे। मौहूर्तिकोऽपि लब्धवर्ण एवासीत्। “मुखावलोकनेनैव पुरतोऽवस्थितस्य पुंसः शीलस्वभावौ भाविनं च वृत्तान्तमाख्यातुमीशे” इत्यसावाचचक्षे। तदाकर्ण्य कश्चनान्तेवासी “तर्ह्यस्य महाभागस्य शीलवृत्तान्तावुदीर्येताम्” इति तमुवाच।
कार्तान्तिकस्तस्य वक्त्रकमलं कियन्तं कालं निर्निमेषं निभाल्य जगाद - “भो विद्वन्! भृशं कुप्यसि। अल्पीयस्स्वपि कार्येषु प्रमाद्यसि। अनवमृश्यैव पौर्वापर्यं वित्तमपव्ययसि। तेन च विपत्तिमनुभवन्नपि नैव जहासि तामेतां कुप्रवृत्तिम्। यदभिदधासि स्वयमेव तदेवानुसर्तव्यमन्यैरित्यभिनिविशसि। अकारणमेवोद्विग्नो भवति। क्वचिच्चापूर्वं व्यवहरसि” इति। तदाकर्ण्य स्मितलवममुञ्चत्स पण्डितप्रकाण्डः। इत्थममुष्मिन्विद्यमानान्बहून्दोषान्प्रकटीचकार सः। तथापि प्रभूतं हिरण्यं दक्षिणात्वेन विश्राण्य ततः प्रतस्थे स विप्रः।
प्रतिनिवर्तनकाले कश्चिच्छिष्यः पप्रच्छ - “भगवन्! अकर्णसुखान्दोषानसकृदश्रावयदेष मौहूर्तिकः। किमर्थं तर्हि भूरि वित्तमस्मै व्यश्राणीः?” इति। तदा स महामनाः प्रत्युवाच - “यद्यदभाषिष्ट स कार्तान्तिकस्तत्सर्वं तथ्यमेव। सन्त्येव मयि ते दोषाः। अतस्तदीयं नैपुण्यं सम्पूजयन्नहमस्मै धनमदाम्। परन्त्वनुदितस्तेन कश्चन विशिष्टो गुणोऽस्ति मयि, आत्मसंयमो नाम । तमेवावलम्ब्य सर्वानप्यमूनवगुणान्निगृह्णामि। अत एव जना मयि बहुमानं प्रथयन्ति” इति।
सविस्मयं तस्य मुखमवलोकयाञ्चक्रुः सर्वेऽप्यन्तेवासिनः। अनन्तरमुवाच स धीरः - “नैसर्गिका एव दोषाः सर्वप्राणिनाम्। यः पुनः स्ववीर्येणामूनवजित्य प्रशस्तं जीवनं नयति, स एव जीविते कृतकृत्यतामश्नुते” इति।