You are here: Home » stories » 106
You are not allowed to perform this action
← 105 
 107 →

निरुपाधिकानन्दतत्त्वम्

धूमशकटमध्यास्य कदाचिज्जगाम कश्चन परिव्राट्। तदन्तिकमासीनाः पान्थास्तेन समं संललापुः। तत्रावसरे कश्चित् सार्थवाहो जगाद — “अहो! अद्य यावद्वणिज्ये भूयांसमुत्कर्षं लेभे। तेनाहं साम्प्रतं परमं प्रमोदं विन्दे। परमेका शङ्का दुनोति मेऽन्तरात्मानम् — 'यद्यकस्मादियमृद्धिर्विपद्येत, तर्ह्यमुष्य मोदस्यापि प्रलयो भवेत्' इति। कथमिव मया प्रमोदोऽसौ संरक्ष्यः?” इति।

अनन्तरं तत्रत्यः कश्चित् पौरमुख्यो व्याजहार — “स्वपक्षे किमपि गरिष्ठं पदमधिकरोम्यहम्। भाविनि पौरनिर्वाचने जयमवाप्तुं पक्षोऽयमिममेव जनमपाश्रयते। पदगरिमसम्मानादिभ्यस्तु प्रसीदति मेऽन्तरात्मा। तथाप्यमी पदमानादयो न शाश्वता इति वेद्मि। 'तेषां प्रच्युत्यां, का गतिर्मे मोदस्य' इति चिन्तोद्वेजयति मामपि।” इति।

अथैका कुटुम्बिनी प्रोवाच — “पञ्चभिस्तनयैः समलङ्कृतं मे सदनम्। समुन्नते पदे कर्म करोति मे भर्ता। सुता अपि विद्यामभ्यस्यन्ति। गेहे च मे सुखशान्तिप्रणयपरितोषाणां साम्राज्यं नित्यं विस्फुरति। परन्तु कियन्तं कालममी सन्तोषादयोऽवतिष्ठेरन्निति परितपामि। 'वृत्तिमासाद्य यदा दारकाः कृतदारा भवेयुः, तदेमे प्रणयप्रमोदादयस्तिरोदधीरन्' इत्यन्तर्मे शङ्कते। यदीमे प्रहर्षादयो जीवने परिपालनीयास्तर्हि किं मया विधेयम्?” इति।

तदाकर्ण्य स यतिः स्मितपूर्वं बभाषे — “द्रविणपदप्रणयानालम्ब्यैव युष्माकं प्रहर्षो वर्तते। तत एवोत्पद्यते साध्वसं युष्माकम् — 'वित्तादीनां विगमे हर्षोऽपि विगच्छेत्' इति। परमार्थतस्त्वानन्दो मानसी काचिदवस्था। सा हि बाह्यपदार्थान्न व्यपेक्षते। बाह्योपाधिनिरपेक्षैवान्तरिकी मुदभिरक्ष्या। यत्नेनैतत्साधयितुं शक्यते। यदीयमवस्था स्वायत्तीक्रियेत, तर्हि पदमानादिषु बाह्यपदार्थेषु प्रणष्टेष्वपि न विरमेच्चेतसः प्रहर्षः। अन्य एवान्तरः प्रमोदः, अन्ये चामी धनमानादयः। प्रमोदस्य तैश्च मिथः सम्बन्धो न परिकल्प्यः। तदैव जीवने तोषवृत्तिः शाश्वती भवेत्।” इति।

इत्थं निशम्य सम्प्रतिपन्नास्त्रयोऽपि पान्था निजगदुः — “सत्यमभाषिष्ठाः। निजां मानसीं वृत्तिं विपरिवर्तयितुं वयं प्रयतिष्यामहे।” इति।

← 105 
 107 →
Search
stories/106.txt · Last modified: 2026/11/10 10:17