You are here: Home » stories » 118
117 
 119

एकोपायनैपुण्यम्

सञ्जग्माते किल कदाचिदरण्यमार्गे गोमायुर्वृषदंशश्च। संललापतुश्च तावन्योन्यं गाढप्रणयबद्धौ कुशलप्रश्नोत्तराभ्याम्। जगाद च तत्र प्रगल्भमानः फेरवः— “वेद्म्यहममुष्मिञ्जगति यावतीरुपायगतीः, न तावतीः कोऽप्यन्यो वेत्तीति।

विज्ञापयामास च तदाकर्ण्यौतुः— “अहो ते प्रज्ञा! एकामेव खल्वहं त्राणविद्यां प्रत्येमि। अनुशाधि मामपि कृपया तानशेषान् नयपथान्” इति।

प्रतिजज्ञे च सदर्पं जम्बुकः— “बाढम्! कोऽत्रायासस्तेषामुपदेशे?” इति।

शुश्रुवे चात्रान्तरे नातिदवीयसि प्रदेशे कौलेयकानां रौद्रो भषणनिनादः। पप्रच्छ च ससम्भ्रमं गोमायुः— “किमिदानीमनुष्ठेयमावाभ्याम्?” इति।

प्रत्युवाच वृषदंशः— “विद्यते मे तरुशिखराध्यारोहणमात्रमेक एव त्राणोपायः। निलीयै तस्मादमुं शाखिनमारुह्य। न भवेत्ते मनागपि भयं यतो ह्यनेकान् रक्षाविधीन् त्वं वेत्थ। तेषामन्यतमं समाश्रय” इत्युदीर्य सत्वरं महाद्रुममारुह्य घनपल्लवान्तराले जुगूहे निजगात्रम्।

“मा स्म भूदोतोरग्रे मे परिभवः” इति सञ्चिन्तयन् फेरवो भृशमुद्विविजे।

अभिदुद्रुवुश्च तावदेव तं क्रूरकौलेयकाः। दुद्राव च ततः स त्वरितम् 'अधुना पलायनमेवैको मे त्राणोपायोऽवशिष्यते' इत्यवधार्य। पलायाञ्चक्रे चासौ परिधावन् मुहुः स्खलन् मुहुश्च पतन् कृच्छ्रेण। सुस्राव च भृशं तस्य शोणितं प्रस्खलनजनिताघातैः क्षतविक्षताङ्गस्य।

बुबुधे च तस्मिन्नहनि स गोमायुः— 'व्यर्थेभ्य उपायशतेभ्योऽपि प्राणत्राणक्षम एक एवोपायो वरीयान्' इति।

117 
 119
Search
stories/118.txt · Last modified: 2026/03/20 00:55