You are here: Home » stories » 133
132 
 134

सुशासनामृतम्

अध्वन्येकदा परिभ्रमन् परिव्राट् स्वकीयैरन्तेवासिभिः साकं वेदान्ततत्त्वार्थविमर्शनतत्परोऽविदित्वा कमपि पितृवनप्रदेशं प्रविवेश। ददर्श तत्र रोरुद्यमानां काञ्चित् प्रमदां स मुनिः। तामुपगम्य चाप्राक्षीत्— वत्से ! किमिति मुञ्चसि बाष्पान् ? का वा तवापदाजगामेति।

हा धिक् ! कथमिव निगदेयं मन्दभाग्याया मे विपत्परम्पराम् ? ह्य एव मे दयितः श्वशुरौ तथैककः सुतश्च कृतान्तेन जह्रिरे। अभाग्येयमेकाकिन्येव कथञ्चित् प्राणान् बिभर्मीति निजगाद सा वामलोचना।

किन्निमित्तेयमनिष्टपरम्परेति सान्त्वयन्ननुयुयोज मुनिः।

केनापि क्रूरेण शार्दूलेन। निर्दयमसौ व्याघ्रापसदो मे कुटुम्बिनोऽपरान् ग्राम्याँश्च जघासेत्याचष्ट सा।

तदाकर्ण्यान्तेवासिष्वेकस्तामेवमन्वयुङ्क्त— मातर् ! अचिरादेव स श्वापदोऽवशिष्टान् ग्राम्यानपि जिघत्सति नूनम्। देशममुं सन्त्यज्य किमर्थमन्यत्र न गच्छथ ? किमर्थं तस्य क्रव्यादस्याहारतामुपगच्छथ ? यत् काननात्परतो राजते तस्मिन् देशान्तरे वासं रोचयध्वं ननु इति।

सा प्रत्यब्रवीत्— कथं वा स्वदेशत्यागं रोचयेमहि वयम् ? अमुष्य मण्डलस्य क्षितिपो हि साधुवृत्तो धर्मपरायणः प्रजावत्सलश्च। पौरजानपदानां सुखसमृद्ध्यै भृशं प्रयततेऽसौ। नास्मिन् देशे द्रोहो वा विप्रलम्भो वोत्कोचो वापचारो वा कुत्रचिदपि वीक्ष्यते। ईदृशे सुशासने प्रशासत्यस्मान् कथमिवान्यत्र गच्छेम ? इमामपि श्वापदबाधामचिरादेव निवर्तयेन्नो नृपतिरिति।

तन्मुखादाकर्ण्य मुनिरन्तेवासिन एवागदत्— अवगच्छथ ननु सुप्रशासनस्य सुफलम् ? दुर्वृत्ते राज्ञि तदमात्येषु च दुरात्मसु, तेषामुपतापो हि क्रव्यादबाधातोऽपि दारुणतरो भवेत्। आपतन्त्यपि भूरिशः कष्टानि सुशासके सति तितिक्षन्त एव क्लेशान् पौरजानपदाः। तेनैवेयं वसुन्धरा नन्दनवनायते इति।

132 
 134
Search
stories/133.txt · Last modified: 2026/04/03 20:04