You are here: Home » stories » 135
134 
 136

लोकोत्तरमुपायनम्

गीतामृतस्वादहृतहृदयो याजकवृत्तिं तत्याज, तदुपदेशे विनितान्तं निममज्ज च कोऽपि पारसमुद्रिको विद्वान् एमर्सनाभिधानः। स कार्लायलाख्यं महादार्शनिकं दिदृक्षुरर्णवं ततार, आङ्ग्लदेशं च जगाम।

तमुपगतं ददर्श कार्लायलः, सहासमेवमुवाच च— “सखे, हिरण्यसमृद्धाद्देशादभ्यागमः। किमिवापूर्वमुपायनमस्मभ्यमाहार्षीः?” इति। तस्य तद्वचः शुश्राव, बाष्पाकुलितलोचनश्चासौ निजगाद— “वयस्य, भवेन्नाम मे देशो वसुसमृद्धः, परं संस्कृतिदृष्ट्या त्वकिञ्चना वयम्। युरोपीयकुलप्रसूतानां यहूदीयागमानुयायिनां चास्माकं कुतो वा सांस्कृतिकं रिक्थम्? तादृशाद्रिक्तदेशादहमागमम्, किन्नाम विश्राणयेयम्?” इति। इत्थं ब्रुवाणस्य तस्य लोचनाभ्यामश्रूणि प्रसुस्रुवुः। तद्ददर्श कार्लायलः, सान्त्वयन्निवाबभाषे च— “वयस्य, उपायनमयाचिषम्, त्वं पुनरश्रूणि प्रमुञ्चसि। कोऽयं विमोहः?” इति। क्षणमिव तूष्णीं तस्थौ, प्रत्युवाच चासौ— “अपूर्वमेव किञ्चिदुपायनं विश्राणयामि। परं नैतन्मदीये देशे उदभवत्, अपि तु भारतवर्षीयमिदम्। मदीयो गुरुः प्रतिदिनमेतदधिजगे।” इत्युवाच, निजकोशाद्भगवद्गीतामेकामुज्जहार तस्मै च ददौ। तां प्रीत्या प्रतिजग्राह कार्लायलः, जगाद च— “सखे, महतां मतिः प्रायः समानमेव कल्पयति। अहमपि ते विश्राणनाय भगवद्गीतामेवाहार्षम्।” इत्युवाच, सोऽपि स्वकोशाद्गीतामन्यामुज्जहार तस्मै चोपजहार।

क्वैष पारसमुद्रिको मनीषी, क्व चायमाङ्ग्लदेशीयो विपश्चित्! तथापि तावुभावपि परस्परं भारतीयां भगवद्गीतामेवोपायनीचक्रतुः! अहो, अतीव गरीयसी खलु तयोरुभयोरपि गीताशास्त्रे निष्ठा!

134 
 136
Search
stories/135.txt · Last modified: 2026/04/05 13:14