You are here: Home » stories » 136

प्राप्तसंस्कार एव धर्मः

दिदृक्षुः कञ्चिद्विद्यामठमगात्कश्चन पण्याजीवः। अकिञ्चन एवासीदसावाश्रमो यत्रत्यो व्यवहारश्च प्राकृत एव। तदखिलमालोक्य स वैश्यो जगाद— “वणिग्दृष्ट्या त्वया विमृश्यम्। अतिक्रान्तकाला खलु ते धीः। प्रत्युद्गम्या अभिनवविपरिणामाः। अत्रत्येषु प्रबन्धेषु भूरिशो विकृतय आकाङ्क्ष्यन्ते। यदि विकारानङ्गीकुर्यास्तर्ह्येवामुष्य विद्यामठस्य प्रथेत कीर्तिः” इति।

“यशोलिप्सवो न वयम्” इति प्रत्यभाषत कुलपतिः।

“अत एव नागमद्विकासमिह। प्रथिते सत्येवेभ्या वसु वितरेयुर्जनाश्च श्लाघेरन्” इति सार्थवाहः।

“उरीकरोमि ते वचः। परं तु तव क्रयविक्रयमधिकृत्य कश्चनानुयोगो मे विद्यते” इति गुरुः।

“सुप्रथितमेव मे वणिज्याकर्म। तेनैव नैगमान्तरेषु लभे प्रकर्षेणादरम्। आस्तां तावत्, कस्तेऽनुयोगः?” इति पप्रच्छ पण्याजीवः।

“धान्यविक्रयी खलु त्वम्? कीदृशानि धान्यानि क्रीणासि?” इति।

“नितरामुत्कृष्टान्येव” इति।

“यद्यपकृष्टगुणानि धान्यानि लभेथास्तर्हि किं कुर्याः?” इति।

“तान्यपाकुर्याम्। कथमपि न मृष्यते मया गुणहीनता” इति।

“सौम्य! न वयं तादृशाः। सर्वाकारान्माणवकाँल्लभामहे। आढ्या अकिञ्चना दुर्बला बलवन्तः प्राज्ञा मन्दा जानपदा पौरा अभिजाता अपकृष्टजातीया इत्याद्यनेकविधा माणवका आव्रजन्त्यमुं मठम्। तेषु न कोऽपि निरस्यतेऽस्माभिः। सर्वानपि सम्यगनुशिष्योत्तमविद्यास्नातान्कर्तुं सन्ततं यतामहे। आचार्या वयं न तु वैश्याः। प्रकृष्टविदुषां सम्पादनमेवास्माकं धर्मः। तमेव धर्मं श्रद्धयानुतिष्ठामः। नेतरेष्वंशेष्वस्माकमादरो विद्यते” इति।

तदाकर्ण्य स वणिगभ्यधत्त— “युक्तमेवाभिधीयते त्वया। यदासादितं तस्य परिष्कारे देशिका एव प्रभवन्ति” इति। अथासावमुमाचार्यं प्रणनाम, भूरि द्रविणं च तस्मै विद्यामठाय व्यतरत्, ततश्च निरगात्।

Search
stories/136.txt · Last modified: 2026/04/06 12:00