You are here: Home » stories » 144
143 
 145

हुतात्मशिरोमणिर्बालः

गोमन्तकविषयेऽस्नोडाख्यं किञ्चन पत्तनं विभाति। तस्मिन्नेव स्थाने ऊनत्रिंशदुत्तरैकोनविंशतिशततमेऽब्दे बालारायामापारिर्महाभागो जज्ञे। गोमन्तकस्वातन्त्र्यसमरस्य धुरन्धरममुं लोकततिर्बालेत्युपाख्ययाजुहाव।

विद्याग्रहणसमयेऽप्यसावनवद्यया राष्ट्रभक्त्या प्राचोद्यत। विप्लवचेष्टितेष्वसौ साटोपं व्यापपार। परकीयप्रभुत्वं प्रतिरुन्धानः स निरन्तरं सङ्ग्रामं ततान। तच्चेष्टितमुपश्रुत्य कुपितं प्रशासनं तं निगडाबद्धं कर्तुमादिदेश। परं स निगूढचारो न केनाप्यलम्भि। तस्मिन्नन्तरे स्वतन्त्रगोमान्तकदलमिति प्रथिता काचनाख्यायिका गोमन्तकमुक्तिसङ्गरस्य धुरमुवाह। सा एवाख्यायिका सायुधसङ्ग्रामाय यूनो व्यनैषीत्। बालोऽपि तत्राभियाने सङ्गत्याग्नेयास्त्रनिर्माणकौशलं भुशुण्डिकाचालनपाटवं चाध्यगीष्ट।

पञ्चपञ्चाशदुत्तरैकोनविंशतिशततमे क्रिस्ताब्देऽस्नोडारक्षकावासे कोऽपि दारुणो विस्फोट उदपादि। तत्र दशभ्योऽधिका भटाः पञ्चतामगुः। अस्मिन् व्यतिकरे बालस्य साक्षान्मन्त्रित्वाभावेऽपि, तं ग्रहीतुं राजपुरुषा भृशमयतिषत।

गोमन्तके इव दादरानगरहवेलीमण्डलेऽपि फिरङ्गिणामाधिपत्यमजृम्भत। तच्च मण्डलं स्वतन्त्रगोमान्तकदलस्य यत्नैः परकीयशासनान्मुमुचे। तेन फिरङ्गिप्रशासनस्य कोपानलो जज्वाल। अतितीव्रान्वेषणेन पञ्चविंशतिमिताः स्वातन्त्र्यभटा राजपुरुषैर्जगृहिरे। तेषु बन्दिषु बालोऽप्यन्यतमो बभूव।

विस्फोटस्य मूलकारणान्युपलिप्सवो भटा बालमत्यर्थं पिपीडुः। स निर्दयं जघ्ने, यानपृष्ठभागे निबध्य रथ्यासु चकर्षे, नानाविधैर्दण्डैश्चाताडि। तथापि धीरोऽसौ नैकस्यापि सहचरस्य नामाचख्यौ। असह्ययातनाभिर्निपीडितोऽसौ बन्दिगृहे एव प्राणान् जहौ।

एकषष्ट्युत्तरैकोनविंशतिशततमे वर्षे गोमन्तकप्रदेशः परदास्यं विच्छिद्य स्वातन्त्र्यश्रियमुपयेमे, स्वतन्त्रभारतस्य चाङ्गत्वमवाप। अस्नोडाग्रामे तस्य हुतात्मनः स्मारकं किमप्यद्यापि लोचनगोचरीभवति।

143 
 145
Search
stories/144.txt · Last modified: 2026/04/17 15:54