You are here: Home » stories » 156
155 
 157

दर्शनमात्रेणापरिच्छेद्यः प्रभावः

बभूव गाधिर्नाम कुशिकवंशप्रभवो नरपतिः । तस्य चैकैवात्मजा सत्यवतीत्याख्याता जज्ञे । तस्याश्च लावण्यलहरी लोकलोचनान्यतिशेते स्मेति सर्वतः पप्रथे प्रवादः । विहरन्तीं कदाचिद्वनभुवि वयस्यासमवेताममूं भृगुकुलतिलको मुनिरृचीको ददर्श । अवलोक्यैव तस्या निरुपमं रूपधेयं मकरध्वजबाणाहतचेताः स मुनिस्तां परिणेतुमियेष ।

आचख्यौ च स्वकीयं मनोरथं भूपालमुपेत्य स मुनिः । विस्मयं लेभे च निशम्य तापसप्रार्थनामवनीपालः, न च तस्मै सुतां प्रदातुं चकाङ्क्ष । 'कान्तारचारिण्यस्मिंस्तापसे कथं नु मे दुहिता राजहर्म्योचिता वनवासदुःखं सहेत' इति चिन्तामापेदे तस्य मतिः । 'प्रत्याख्यातुं च न शक्नोमि मुनेरस्य वाञ्छाम् । बाह्याकारतोऽप्ययं न प्राकृतो जन इत्यनुमीयते । तदसाध्यमेव किमपि कार्यममुष्मै निर्दिशामि' इत्यवधार्य जगाद च मुनिम् -

'विद्यते हि काचनापूर्वा जामातृपरीक्षाप्रणाली कुशिककुलोत्पन्नानामस्माकम् । यः खल्वेकतः श्यामकर्णान् सहस्रमश्वानुपहरेत्, तस्मा एव सुता प्रदीयेत । यद्येतादृशान् वाजिनः समुपाहरेः, तर्हि ध्रुवं ते दुहितरं वितरेयम्' इति ।

बुबुधे च पार्थिवस्याशयं स मुनिः । ततो वरुणं प्रसादयितुं तपो महदातेपे । तदीयेनोग्रेण तपसा परितुष्टो यादसाम्पतिस्तत्पुरस्तात् प्रादुरास । ययाचे च श्यामकर्णानामश्वानां सहस्रम् स मुनिर्निवेद्य स्वमनोरथम् । ददौ च तस्मै तथाविधान् तुरङ्गमान् वरुणस्तद्याञ्चामूरीकृत्य ।

समानीय च तान् श्यामैककर्णान् वाजिनस्तस्मै नृपतये निवेदयामास स मुनिः । 'दर्शनमात्रेणैव न कस्यापि प्रभावमवजानीयात्' इति तदा विदाञ्चकार स राजा । सत्यपाशबद्धश्च स महीपतिः स्वतनयाममुष्मै मुनये विशश्राण । ततश्चर्चीकसत्यवत्योः परिणयो यथाविधिः‍ समपद्यत ।

पुपोष च तां प्रेम्णा स मुनिर्यथा राजहर्म्यसंवृद्धा सा कान्तारे न कमपि क्लेशमवाप्नुयात्, यथा च परमां मुदमुपेयात् ।

155 
 157
Search
stories/156.txt · Last modified: 2026/04/28 12:33