You are here: Home » stories » 155
154 
 156

याचकबाहुल्यमेव कुप्रशासनम्

राजसूयावभृथानन्तरं प्रभूतं वसु विश्राणयाञ्चकार युधिष्ठिरः। अपारमभूत्तन्मखोपार्जितं वित्तं यस्य निधानाय नावकाशमविन्दन्त कोशागाराः। आ प्रभातादा च दिनान्तादजस्रं दानाम्बुधारां वर्षतोऽप्यमुष्य सम्पदो न मनागप्यपचीयमाना अलक्ष्यन्त। तेन च 'अहमेवास्मि भूतले परमौदार्यधुर्यः' इति कश्चनाहङ्कारो जज्ञे तदीये चेतसि।

बुबुधे चैतदखिलं सर्वान्तर्यामी मुरारिः। जिहीर्षुश्चामुष्य तं दर्पज्वरं तेनैव साकं बलेर्वैरोचनेरास्थानमजगाम। दिदृक्षयायातं तं विलोक्य प्रहृष्टान्तरात्मा बलिः स्वागतादिभिः सत्कृत्यैनं पप्रच्छ - “महान्मे प्रमोदस्तावकागमनेन। परं किमर्थममुमपात्रभूतं नृपतिमपि सममुपानैषीः?” इति।

प्रत्युवाच माधवः - “नैषोऽपात्रम्। राजसूयमखमनुष्ठाय भूरि दक्षिणामदादसौ। कोऽन्योऽस्मिञ्जगति ईदृशो वदान्यधौरेयः सम्भाव्येत?” इति।

“अपात्रमेवायमवनीपतिः। कुतोऽस्य वदान्यत्वम्?” इति जगाद बलिः।

पुनरप्याह शौरिः - “आ प्रभाताद्यमसौ दानमहोत्सवं प्रावर्तयत, स आ च दिनान्तादन्ववर्तत। सततविश्राणनादमुष्य पाणी श्रममवापतुः। मासादप्यधिकं कालमेवमेवाव्यवच्छिद्य प्रावर्तत। कथमिव तादृशो नृपतिरपात्रं भवेत्?” इति।

प्रत्याचख्यौ बलिः - “मदीये राज्ये संवत्सरे सकृदेव दानसत्रं प्रतायते। तस्मिन्दिने मदीया राजपुरुषाः प्रतिगृहं गत्वा 'प्रतिगृह्यतां दानम्' इति पौरानभ्यर्थयन्ते। तथापि विरला एव प्रतिग्रहीतार उपलभ्यन्ते। 'परस्मात्प्रतिग्रहो न साधीयान्' इति हि पौराणां मतिः। प्रतिग्रहं हि ते स्वसुकृतक्षयहेतुं मन्यन्ते। अस्य तु विषये दानवार्ताश्रवणसमकालमेव प्रतिग्रहीतुं धावन्तः समुपतिष्ठन्ते जनाः। इत्थं सति कथमस्य प्रशासनं प्रशस्यं भवेत्?” इति।

तदाकर्ण्य त्रपावनम्रवदनो युधिष्ठिरस्तूष्णीं तस्थौ।

154 
 156
Search
stories/155.txt · Last modified: 2026/04/28 11:36