याचकबाहुल्यमेव कुप्रशासनम्
राजसूयावभृथानन्तरं प्रभूतं वसु विश्राणयाञ्चकार युधिष्ठिरः। अपारमभूत्तन्मखोपार्जितं वित्तं यस्य निधानाय नावकाशमविन्दन्त कोशागाराः। आ प्रभातादा च दिनान्तादजस्रं दानाम्बुधारां वर्षतोऽप्यमुष्य सम्पदो न मनागप्यपचीयमाना अलक्ष्यन्त। तेन च 'अहमेवास्मि भूतले परमौदार्यधुर्यः' इति कश्चनाहङ्कारो जज्ञे तदीये चेतसि।
बुबुधे चैतदखिलं सर्वान्तर्यामी मुरारिः। जिहीर्षुश्चामुष्य तं दर्पज्वरं तेनैव साकं बलेर्वैरोचनेरास्थानमजगाम। दिदृक्षयायातं तं विलोक्य प्रहृष्टान्तरात्मा बलिः स्वागतादिभिः सत्कृत्यैनं पप्रच्छ - “महान्मे प्रमोदस्तावकागमनेन। परं किमर्थममुमपात्रभूतं नृपतिमपि सममुपानैषीः?” इति।
प्रत्युवाच माधवः - “नैषोऽपात्रम्। राजसूयमखमनुष्ठाय भूरि दक्षिणामदादसौ। कोऽन्योऽस्मिञ्जगति ईदृशो वदान्यधौरेयः सम्भाव्येत?” इति।
“अपात्रमेवायमवनीपतिः। कुतोऽस्य वदान्यत्वम्?” इति जगाद बलिः।
पुनरप्याह शौरिः - “आ प्रभाताद्यमसौ दानमहोत्सवं प्रावर्तयत, स आ च दिनान्तादन्ववर्तत। सततविश्राणनादमुष्य पाणी श्रममवापतुः। मासादप्यधिकं कालमेवमेवाव्यवच्छिद्य प्रावर्तत। कथमिव तादृशो नृपतिरपात्रं भवेत्?” इति।
प्रत्याचख्यौ बलिः - “मदीये राज्ये संवत्सरे सकृदेव दानसत्रं प्रतायते। तस्मिन्दिने मदीया राजपुरुषाः प्रतिगृहं गत्वा 'प्रतिगृह्यतां दानम्' इति पौरानभ्यर्थयन्ते। तथापि विरला एव प्रतिग्रहीतार उपलभ्यन्ते। 'परस्मात्प्रतिग्रहो न साधीयान्' इति हि पौराणां मतिः। प्रतिग्रहं हि ते स्वसुकृतक्षयहेतुं मन्यन्ते। अस्य तु विषये दानवार्ताश्रवणसमकालमेव प्रतिग्रहीतुं धावन्तः समुपतिष्ठन्ते जनाः। इत्थं सति कथमस्य प्रशासनं प्रशस्यं भवेत्?” इति।
तदाकर्ण्य त्रपावनम्रवदनो युधिष्ठिरस्तूष्णीं तस्थौ।