You are here: Home » stories » 158
157 
 159

तक्षकशीलपरीक्षणम्

निर्मातुमैहतासौ मेदिनीपतिर्भव्यमन्दिरं निजराजधान्याम्। आस्थानशिल्पी तु तदीयो वलीपलितोपहतो बभूव। स चैनं नृपमुवाच— “महाराज, कञ्चिद्दक्षं युवानं तक्षणकलाकोविदं वृत्वा तमेवास्मिन् पदे नियुङ्क्ष्व” इति।

अचीकरच्च तदनुगुणं राजा पटहघोषणां यत्— “मन्दिरतक्षणे समुत्सुकाः शिल्पिनश्चारुतरं कमपि पाषाणप्रपञ्चं निर्मायोपहरेयुः। यदीया कृतिः सर्वातिशायिनी स्यात्, स एव राजशिल्पित्वेन सम्भावयिष्यते” इति।

आजग्मुश्चैतदाकर्ण्य नानादिगन्तेभ्यः शिल्पिनः स्वस्वकृतीरादाय राजधानीम्। तेष्वमू शिवमूर्तिधनपालौ द्वावेव शिल्पकलानिष्णाताविति तयोः कृती एव श्रेष्ठीकृते।

प्रादर्श्यन्त च सर्वाणि शिल्पानि पौरजनदृक्पाताय। तत्र तु समुत्तुङ्गे वेदिकान्तरे शिवमूर्तिधनपालयोः कृती न्यधीयेताम्। किन्तु तयोरधस्तात् प्राचीनराजशिल्पिन एव नामालिखन्नामी राजपुरुषाः, न त्वमुयोस्तक्षकमहाभागयोः।

प्रदर्शनस्थलीं जग्मिवांसौ तौ शिल्पिप्रवरौ निजनामादर्शनेन सुतरां विषेदतुः। शिवमूर्तिस्तु क्षणं तूष्णींभावमवलम्ब्य मूर्त्योश्चरणारविन्दयोः पुष्पाञ्जलिमार्पिपत्, निरगाच्च ततः। धनपालस्त्वन्तःकोपानलेन दह्यमानो निर्जगाम।

तस्यामेव तमस्विन्यां स धनपालो रहस्युपेत्य शिवमूर्तिनिर्मितां मूर्तिं नासिकाच्छेदं विरूपयाञ्चकार, प्रतस्थे च ततः। निलीय स्थिता राजपुरुषाः सर्वमिदं न्यभालयन्निति नासौ बुबुधे।

अन्येद्युस्तु नृपो राजशिल्पिपदे शिवमूर्तिमेवाभ्यषिञ्चत्। धनपालं च परुषाक्षरैर्निरभर्त्सयत्। उभयोः शिल्पिनोः शीलं परीक्षितुमेव स भूमिपालस्तयोरपि मूर्त्योरधस्तात् प्राचीनशिल्पिनो नामाङ्कयामास।

157 
 159
Search
stories/158.txt · Last modified: 2026/04/29 11:14