You are here: Home » stories » 165
← 164 
 166 →

तमःप्रवेशकौशलम्

प्रसाधने नितान्तं ससज्जे जातु मणिमुकुरमवलोकयमानो मधुमथनः। तदवेक्षमाणः कश्चिदन्तरङ्गकिङ्करो जगाद— “देव, कुतोऽयमपूर्वो यत्नः प्रसाधनविधाने मणिदर्पणमधिष्ठाय? अनर्घ्याणि रत्नाभरणानि चाधत्थाः। कोऽत्र हेतुः? कां वाभिनवां वल्लवीं दिदृक्षसे?” इति।

तदाकर्ण्य प्राह शौरिः— “अद्य खलु सुयोधनमुपसर्पेयम्। तदर्थमेवायमाकल्पः” इति।

“का नाम सङ्गतिः सुयोधनसन्दर्शनस्यास्याश्च वेषभूषायाः?” इति पप्रच्छ परिचारकः।

“तदीयमानसे माहात्म्यमाधातुमेवेदमवश्यमनुतिष्ठामि” इति विहस्य व्याजहार हरिः।

“कथमिवैतत्?” इति सविस्मयं बभाषे भृत्यः।

व्याचचक्षे च केशवः— “अन्तरात्मनैव मामवलोकन्ते मे भक्ताः, न खलु तेषां पुरस्तादुपयुज्यते कश्चिद् बाह्याडम्बरः, न वा तत्र स्वमाहात्म्यं प्रकाशयेयम्। अदृष्टपरमार्थस्तु स सुयोधनो बाह्यदृष्टिरेव। तस्मिन्नलौकिकं प्रभावमुत्पादयितुमेवायमलङ्कारविधिः। इतरथा स मामवजानीयादुपेक्षेत वा” इति।

“त्वं महापुरुषः सन् कुतस्तं दुर्मतिं स्वयमुपसर्पेः? दूतेन तमेवात्राह्वय। स एवागत्य त्वां पश्यतु। स खलु साधीयान् पन्थाः” इति बभाषे स परिचारकः।

“नैव जातु नैशं तमः प्रकाशमुपसर्पति। यत्र हि तिमिरं विजृम्भते, तत्र ज्योतिः स्वयमेव प्रविशेत्, येन तस्मिन् ध्वान्तान्धे प्रदेशे भासः प्रसरेयुः। तदीयमदं दुश्चरितं च समूलमुन्मूलयितुमेव तमुपगच्छामि। मदविह्वला अस्मदन्तिकमुपेयुरित्याशा न खलु समीचीना। तस्माद्वयमेव तत्राभिगच्छामः” इति प्रत्यवादीन्माधवः।

“अतिगहना खल्वमुष्य देवस्य नयमार्गरीतिः। न ह्यमूं वयमवगन्तुमीश्महे” इति स्वगतं जल्पन् ततो निश्चक्राम स किङ्करः।

← 164 
 166 →
Search
stories/165.txt · Last modified: 2026/05/22 19:21