You are here: Home » stories » 17
16 
 18

औदार्यस्य परा काष्ठा

अथैकदा देवकीनन्दनो धर्मसूनोर्युधिष्ठिरस्य मणिमयूखखचितां सभामाससाद । कथाप्रसङ्गेन च तं पाण्डवाग्रजः पप्रच्छ - “हे सर्वसाक्षिन्! न खलु मयि निवसन्तीति कथयन्त्यसूयादयो दुर्गुणाः । मत्समीपमुपेयिवान् कश्चिदपि याचनकजनो न जातु विमुखो बभूव । तथापि कथमिदं यत्केचन विचक्षणा अपि राधेयमेव मत्तो गरीयांसमामनन्ति? किन्निबन्धनोऽयं जनप्रवाद?” इति । तच्छ्रुत्वा स्मित्वा मधुसूदनः प्रत्युवाच - “कालेनैतस्य प्रश्नस्योत्तरं लब्धासे, तावत्प्रतीक्षस्व” ।

अतिक्रान्तेषु कतिपयदिनेषु प्रावृषेण्यः कालः समुपागमत्, यस्मिन् मासमेकं धारासारैरश्रान्तमभ्यवर्षीद्दैवः । एवंविधे दुर्दिने कदाचिच्छ्रीकृष्णः पाण्डुसुतानां निलयमाजगाम । ते चैनं सादरपुरःसरं प्रत्यगृह्णन् । पृष्ट्वा च कुशलं स तेभ्यः स्वप्रयोजनं न्यवेदयत् - “क्रतवे शुष्काणामेधसां प्रभूतं प्रयोजनं वर्तते” इति । तदाकर्ण्य ते धर्मनन्दनादयः परं सङ्कटमापेदिरे, यतो हि निखिलमपि काष्ठदारु सलिलसिक्ततया शुष्कतां विजहौ । तथापि तैः कथङ्कथमपि यतस्ततोऽपि मनाक् काष्ठं समाहृत्योपजह्रुर्मधुसूदनाय । प्रतिकूलेऽपि समये प्रभोराज्ञामल्पशोऽपि वयं पूरयितुमभूमेति चेतसि परितोषं लेभिरे ।

अथ स वासुदेवः सूतपुत्रस्य कर्णस्य भवनमभिजगाम । कर्णस्तु तं पुरुषोत्तमं विलोक्यानन्दनिर्भरेण चेतसा प्रत्युज्जगाम । कुशलप्रश्नानन्तरं केशवस्तस्मै स्वकीयमभिलषितं शशम्स । सोऽपि प्रमुदितमनास्तथेति प्रतिशुश्राव, जगद च - “भगवन्, मुहूर्तमत्र विश्राम्यताम्, यावदहमिन्धनोपयोगिनां दारूणां सङ्ग्रहं विधातास्मि” इति ।

कृष्णस्तदनुमत्य तेनोपदिष्टं विश्रमसदनं गत्वा नातिचिरेणैव न्यवर्तत । स यावत्पश्यति तावत्कर्णेन शुष्केधसां महान् राशिश्चिचयिषे । एतादृशे प्रवर्षणे कुतः शुष्कमिन्धनं तेनासादितमिति विस्मयाविष्टो बभूव । अचिरेणैव स बुबुधे यत्काष्ठसम्पदर्थं कर्णेन निजभवनस्य गवाक्षाः, कपाटानि, शयनीयं, निजासनपर्यन्तं सर्वं दारुमयमुपकरणजातं परशुना निकृत्यायं राशिः सम्पादित इति । तदानीं मधुसूदनस्तस्य त्यागशौण्डीर्यं भृशं प्रशस्य तानि काष्ठान्यप्रतिगृह्यैव पुनर्धर्मराजस्य सद्म प्रातिष्ठत । कृष्णात्सर्वं वृत्तान्तमाकर्ण्य धर्मसूनुर्व्रीडयावनतवदनोऽभूत्, सम्यगवेच्च यत्किमर्थं लोको राधेयं दानशूरेषु धुर्यं मन्यत इति ।

16 
 18
Search
stories/17.txt · Last modified: 2025/11/30 13:12