त्यागिविमर्शः
बभूव किल पुरा विगतरजस्तमस्कः कोऽपि यतिवरः, प्रथितकीर्तिरासीद् यः सर्वतो विरक्तचेतस्कतया । न किल लेभे स्पृहां लेशतोऽपि स वसुप्रभृतिषु विषयेषु । श्रद्धालवः श्रद्धालवो जनास्तस्मै फलानि धनानि चोपजह्रुः । स तु यतिपुङ्गवः प्रतीकमात्रतया फलमेकमेव प्रतिगृह्यावशिष्टं समस्तमर्थिजनेभ्यो व्यतरत् । इत्थं तस्य यशश्चन्द्रिका दिक्षु विदिक्षु च चकासे ।
अथैकदा सोऽध्वनीनः कञ्चन महानगरमाससाद, यत्र कश्चिद् वैश्यमुख्यः प्रभूतवित्तो न्यवात्सीत् । तेन राजपथेन व्रजन्तं तं यतिपतिं विलोक्य स धनपतिरभिमुखमागत्य तत्पादावुपस्पृशाम्बभूव । समनन्तरमेव सोऽपि यतिस्तस्य वणिजश्चरणौ पस्पर्श ।
अनेन तावद् विस्मयाविष्टचेताः स श्रेष्ठी तं मुनिपुङ्गवं पप्रच्छ — “भगवन् ! किंनिमित्तं ममापि पादौ त्वं पस्पृशिथ ?” इति ।
तच्छ्रुत्वा स यतिस्तमेव प्रत्यपृच्छत् — “त्वया नु प्रथमं किमभिसन्धाय मम पादाववन्दिषाताम् ?” इति ।
श्रेष्ठी अभिदधे — “ननु त्वं सर्वविधसङ्गबन्धनविमुक्तः । अपि च, त्वदीया न विद्यते प्रीतिर्जनयित्र्यामपि जनकेऽपि वा । अतस्त्वमेव त्यागीनां धुरीणोऽसि” इति ।
“त्वमेव खलु महात्यागी, नाहम्” इति प्रशान्तवदनो मुनिर्जगाद ।
“अहं हि वृत्त्या वणिजेव । ईदृशोऽहं कथं नाम त्यागी भवितुमुत्सहेय ?” इति स धनपतिः पुनरनुयुयुजे ।
तदा स यतिर्निर्णयमुवाच — “मया हि केवलं प्राकृतौ जनकौ परित्यक्तौ । त्वया तु पुनर्जगतः पितराविव स्थिते श्रीधर्मे एवोज्झिते । तस्मात् त्वमेव मत्तोऽपि गरीयान् त्यागी, नाहमिति” ।
एतदाकर्ण्य सोऽवनतशिरा धनिको व्रीडामवाप्यात्मनः स्खलितमभ्युपेत्य तस्य महात्मनः शिष्यतामगमत् ।