आहारनैयत्योपदेशः
चकासामास कश्चिदाश्रमः सरित्तटोपान्तविराजमानाद्देवगृहादविदूरे। दिदृक्षवः सुरसदनमागत्याश्रममप्यमुमभिजग्मुर्बहवो यात्रिकाः, तत्रत्यानां च यतीन्द्राणामाशिषमुपसङ्गृह्यैव स्वानि धामानि प्रतिपेदिरे।
आजुहाव स तपोनिधिर्भोजनायाथैकदा मध्याह्नसमये सम्प्राप्तान् कांश्चिद्भक्तान्। निषेदुश्च ते सर्वे सत्रागारे। बभाषे च स मुनिः— “नृणां नः सतामपि, आहारग्रहणविधिस्तिरश्चामिवानुष्ठेयः। तत एव नः श्रेयः, लोकस्य च महानुपकारः कल्प्येत” इति।
नाबुध्यत कश्चिदुपासको गूढममुमाशयम्, पप्रच्छ च— “भगवन्, न खल्ववगच्छामो वयं ते वाचस्तात्पर्यम्” इति।
प्रत्युवाच स मुनिः— “अदन्ति पशवः क्षुधार्ता एव। लब्धेऽपि प्रभूतेऽशने, यावदपेक्षितं तावदेवाददते। धात्रा यस्मै यदाहारजातं कल्पितम्, तदेवाश्नन्ति ते। न जातु पञ्चास्यः शष्पमत्ति, न च मतङ्गजः पिशितं जुषते। ईदृशादेव निसर्गानुकारिण आचारात्, निरामयाः सन्तो यावदायुषं प्राणन्ति मृगपक्षिप्रभृतयः।”
क्षणं विश्रम्य पुनर्जगाद— “न ह्येवमाचरत्ययं मनुष्यः। अनुद्रेकेऽपि बुभुक्षायाः, रसनेन्द्रियतर्पणायैवाहारमश्नाति। उद्वाहादिमहोत्सवेषु च मात्रामतिक्रम्य भुञ्जानः, स्वयमेव निजं निरामयत्वं विध्वंसयति। स्वाधीनेऽपि स्वास्थ्यरक्षणे, न मनागप्याद्रियन्ते मनुजाः। व्यायामादिभिरशेषदोषमपमृज्य स्वास्थ्यं रक्षितुं पारयन्तोऽपि, तन्नानुतिष्ठन्ति। अत एव ब्रवीमि— तिर्यग्वदशितव्यम् इति।”
प्रावर्तन्त च भोजने ते जनाः सविस्मयं यतीन्द्रस्य वदनकमलमवलोक्य। तैः साकं भुञ्जानः स मुनिः पुनरभ्यधात्— “महनीयमदः खल्वन्नं यतो ब्रह्मेति श्रुतिः। नैकोऽप्यन्नकणो वृथा नेयः। शुभोदर्कं भवति प्रशस्तविचारपुरस्सरं भुक्तमेवान्नम्। अत एव भोजनवेलायां न कार्या कुत्सितविचारचर्चेति प्राहुर्हि वृद्धाः।”
मनसा भावयन्तस्तमृषिजनेनोपदिष्टं विचारम्, भुक्त्वा परितृप्ताः प्रतस्थिरे ततो भक्ताः।