You are here: Home » stories » 183
182 
 184

सद्गुरूणां लक्षणम्

इयेष कञ्चिदन्तेवासिहिताय गुरुमाश्रमाधिपतिः। उपतस्थिरे तदधिगमाय त्रयोऽभ्यर्थिनः। ततानाश्रमाधिपतिरेकां तिरस्करिणीं तेषामग्रे। तस्याः पश्चान्निलीय गुरुरनुयुयुजे किंस्वित् पाण्डित्यं गरीय आहोस्वित् शिष्यवात्सल्यं दैशिकेष्विति।

विद्याप्रकर्षमन्तरा न कोऽपि सम्यगनुशास्तुमीशीतातो वैदुष्यमेव प्राधान्यमर्हतीति प्रथमः प्रत्यवादीत्। उभयोरपि सङ्गतिरेव ज्यायसीति द्वितीयो व्याजहार। पाण्डित्यं तु स्यादेव तस्याल्पत्वेऽपि यतेत चेत् समेधयेत् स्वज्ञानमथापि शिष्येषु वात्सल्यमन्तरा न जाघटीत्याचार्यकमत एव वात्सल्यमेव प्राधान्यमञ्चतीति तृतीयः प्रोवाच।

किमर्थमन्तर्धाय तिरस्करिणीं युष्माकमाननान्यवीक्षमाणोऽहं युष्माननुयुञ्ज इत्याचार्यो भूयः पप्रच्छ।

पुरतस्तिष्ठत्सु कश्चित् प्रागेव परिचीयेत चेद् वरणे पक्षपातो विजृम्भेतेति मत्वा भवानेवमकार्षीदिति प्रथमस्तम्प्रत्यवोचत्। अध्यापकस्य सौन्दर्यं वैरूप्यं वा मा भूत् प्रभावकारि वरणप्रस्ताव इति द्वितीयो जगाद। वाङ्मधुरिमाणं बिभृयाद् गुरुरतोऽमीषामभ्यर्थिनां प्रज्ञां शिष्यस्नेहं वाक्पटुत्वं च युगपद् दिदृक्षुरस्माननुयुङ्क्ते भवानिति तृतीयो न्यगदत्।

परममुत्कर्षमावहति तृतीयस्यैव प्रतिवचनमिति हेतोस्तमेवाध्यापकपदे न्ययुङ्क्ताचार्यः।

182 
 184
Search
stories/183.txt · Last modified: 2026/05/25 11:44