You are here: Home » stories » 191
190 
 192

श्रुतिधरविहङ्गमाः

जगाम रणक्षोणीं कुरुक्षेत्रमहासङ्ग्रामावसाने शमीको नाम कश्चित्तापसप्रवरः। तत्र च कुतश्चिन्निपतितमातङ्गघण्टान्तरालात्समश्रौषीदसौ स्फुटं कलकूजितमर्भकविहङ्गानाम्। साश्चर्यमुत्क्षिप्यामूं घण्टां ददर्शासौ काँश्चन विहङ्गमपोतान्। अहो चित्रं यच्छोणितवसामेदोमांसपङ्किलेऽपि सङ्ग्रामशिरसि पतितान्यण्डानि पतन्त्या गजघण्टयैव ररक्षिरे, येभ्य एवेमे शावकाः प्रादुरभूवन्। “अप्राकृताः खल्विमे खगाः, नूनममीभिः कैश्चिद्दिव्यात्मभिर्भाव्यम्” इति निश्चित्य निजमाश्रममपनिन्ये तान्, परया च सचेतस्तया पुपोष। मुनेः परिचर्यया च क्रमेण ववृधिरेऽमी शकुन्तपोताः।

यदा यदा ह्यसौ मुनिरन्तेवासिनोऽध्यापयामास, तदा तदा सर्वमप्यमी निशशमुः। ततश्च निगमान्नानाविधानि शास्त्राणि चाध्यगीषत।

परं विस्मयं प्रपेदिरे तपोधनाः कदाचिदेतेषां चञ्चुपुटेभ्यो निर्गलन्तीं श्रुतिगिरमाकर्ण्य। “कुतो वा युष्माभिरिदमवापि श्रुतिज्ञानादिकम्?” इति तान्पप्रच्छ शमीकः। तदा जगदुस्ते पक्षिणः - “यद्यत्त्वयान्तेवासिभ्य उपादिश्यत तत्तत्सर्वं निशम्यैवावजग्मिम वयम्। त्वमेव नः परमो देशिकः। निजजीवने श्रेयःपथमवगाहितुमुपायं मृगयामहे” इति।

तदाकर्ण्य सविस्मयं पप्रच्छ मुनिः - “अहो खगाः! कथं यूयं मानवा इव सम्भाषितुं प्रभवथ? कथं वा युष्माकं मनने पाटवम्?” इति।

तमूचुश्च ते - “पुरा खलु विपुलस्वान्नाम कश्चिन्महर्षिर्बभूव। तस्य सुकृषस्तुम्बुरुश्चेति द्वौ सुतौ बभूवतुः। प्राक्तने जन्मनि वयं सुकृषस्यात्मजा अभवाम। कदाचिदाखण्डलो जीर्णविहङ्गमच्छद्मनास्मदाश्रममाजगाम। स च क्षुधापरिपीडितो बभूव। अस्मत्तातेन पृष्टः स पक्षिराजो जगाद - 'मानवपिशितं खादितुं मे स्पृहा' इति। तस्यामुमपूर्वमभिलाषं निवर्तयितुं भूयो भूयः प्रायततास्मत्पिता। परं स विहङ्गो निजवाञ्छामनपहायैवावतस्थे। अन्ते चास्मानाहूय तातोऽब्रवीत् - 'अस्य पतत्रिणः क्षुधोपशान्तये यूयं स्वकलेवराणि प्रयच्छत' इति। परं भयाकुला वयं तस्य क्षुधार्तस्य पतत्रिणो वाञ्छापूरणेऽसामर्थ्यमाविश्चकृम। तेन च भृशं चुकोपास्मत्पिता। 'आगामिनि जन्मनि पक्षिजातौ जनिं लभध्वम्' इति शप्त्वा स स्वयं निजदेहोपहारं दातुं सज्जतामगात्।

तस्मिन्नन्तरे निजरूपेणाविर्भूय शतक्रतुरुवाच - 'हे महामुने! तव सत्त्वपरीक्षणार्थमेव मयायमाकारो जगृहे। त्वयि चाहं भृशं प्रसीदामि। यत्त्वमभिलषसि तत्ते प्रदास्यामि' इति। तातस्तु किमपि न ययाचे। ततश्चाखण्डलः - 'तव दिव्यं ज्ञानं तपश्चाविघ्नं भूयात्' इत्याशिषं प्रदाय तस्माद्देशादन्तर्दधे। तदनन्तरं वयं पितुश्चरणयोरवपत्य तं क्षमामयाचामहि, शापवचनं च प्रतिसंहरस्वेत्यन्वनयामहि। तदा तातो जगाद - 'न हि मे व्याहृतं मोघं भवितुमर्हति। पक्षिभावेन जीवनयापनं युष्माकमनिवार्यमेव। तथापि मदनुग्रहेण यूयं वेदशास्त्राणां परमां प्रज्ञामवाप्स्यथ। यथा मानवास्तथा यूयमपि स्फुटवाग्मितां लप्स्यध्वे' इत्युदीर्याशिषं विततार।”

तदाकर्ण्य शमीको महर्षिः - “विन्ध्याचले निवसन्तो यूयं धर्मप्रचारं कुरुत” इत्यमूञ्छकुन्तान्दिदेश।

190 
 192
Search
stories/191.txt · Last modified: 2026/06/02 12:04