You are here: Home » stories » 192
You are not allowed to perform this action
← 191 
 193 →

स्वचित्तानुसारी हि जगदाकारः

सुवेलगिरेः शृङ्गं मारुत्यादिप्लवङ्गमैः साकमध्यारुरोह कदाचिद्दाशरथिः। नभोमण्डले भ्राजमानं हरिणाङ्कं निदर्शयन् पप्रच्छ स वयस्यान् — “भोः सखायः! हरचूडामणौ यदयं श्यामलकलङ्कश्चकास्ति, किं नु खलु तस्य निदानम्? स्वमत्यानुगुण्येन ब्रूत” इति।

पार्थिवो हि सुग्रीवः सर्वत्र राष्ट्रांशमेवावबुध्यते। जगाद सः — “क्षमायाश्छायैवास्मिन् परिलक्ष्यते” इति।

यं ज्यायान् भ्राता निरभर्त्सयत् राज्याच्च निरवासयत्, स पौलस्त्यो बभाषे — “स्वर्भानोश्चरणाघातस्यैवायं व्रणो लक्ष्यते” इति।

सिंहासनमर्हन्नपि यो यौवराज्यमात्रेणैवातुष्यत्, स वालिपुत्रो जगाद — “रतिमुखारविन्दं स्रष्टुं विधाता सुधांशोः सारभागं जहार। तेन सञ्जाते विवरे यदन्तरिक्षं परिदृश्यते, तदेव कृष्णवर्णतया प्रथते” इति।

जनकजाविरहव्यथया योऽतप्यत, स भ्रातृवात्सल्यनिधी रघूद्वहोऽवोचत् — “गरलं हि सुधांशोः सहजो भ्राता। तमेव स्ववक्षसि बिभर्ति कलानिधिः। तस्यैव गरलस्य प्रकोपात् निजमयूखैर्विरहिणो बाधते शशाङ्कः” इति।

सर्वत्र दाशरथिमेव वीक्षमाणो रामभक्तिरसिको मारुतिर्बभाषे — “देव! भवदीयोऽनुरक्तः किङ्कर एष रोहिणीपतिः। निजहृदये भवतो नीरदश्यामलां मूर्तिमेव धत्ते” इति।

अत्रास्माकमन्तःकरणसङ्काशः खल्विन्दुः। निजचित्तवृत्त्यनुसारेणैव मुकुरकल्पे मनसि परेषामपि स्वभावमवगच्छामः। सर्वत्र दुर्जनानेवावलोकते कलुषितान्तःकरणः, सुयोधनवत्। सज्जनानेव तु वीक्षते विशुद्धचेताः, युधिष्ठिरवत्।

← 191 
 193 →
Search
stories/192.txt · Last modified: 2026/11/10 10:18