You are here: Home » stories » 202

पादपसार्वभौमचरितम्

परिवव्राज पथा केनापि सार्धं विनेयेन कश्चिदाचार्यः। अतिष्ठच्च मूलमुपसृत्य कस्यचिद्वनस्पतेः, 'एवमस्तु' इति च व्याजहार। तस्य वचसां गुह्यमाशयमविद्वान् पप्रच्छ गुरुमन्तेवासी।

प्रत्युवाच तदा देशिकः - “अश्रौषमहं यदसौ महाद्रुमः स्वान्तरङ्गवृत्तिमन्यं शाखिनं प्रत्यवदत्। अत एव 'तथास्तु' इत्यन्वमोदिषि।”

“किंस्वित् तस्य पादपस्य वाञ्छितम्?” इति पप्रच्छ शिष्यः।

“शासेयं कृत्स्नां वसुन्धरामेकच्छत्रां सम्राड्भूत्वेति चिन्तयत्यसौ भूरुहः।”

विहस्य ततोऽगादीच्छिष्यः - “आचार्य! अशक्यमेतत्। ननु व्योमारविन्दायते तदीयाकाङ्क्षा? का वा तस्यार्हता चक्रवर्तित्वमवाप्तुम्?”

“कथं नार्हेत् तात! यतो ह्यसावाच्छादनं फलति निष्कामम्। ददाति चाश्रयमखिलसत्त्वरक्षणाय। किमु न खल्वेतदशेषं पुण्यसञ्चयाय कल्पते?”

“सत्यमेतत्। तदपि कथमिव तरुः सम्राट्पदवीं भजेत?”

“विधिसङ्कल्पे जाग्रति किमिव दुष्करं लोके?”

अथ तस्यामेव शर्वर्यां ववर्ष देवः प्रकामम्। प्रभञ्जनेन च समूलमुत्पाटितः स महीरुहो निपपातोर्व्याम्। तदुद्वीक्ष्य जहास मुमोष च तं प्रसङ्गं स्मृतेश्छात्रः।

अतीयुः कतिपये मासाः। एकदा धावन्नुपेत्य गुरुमभ्यधाच्छिष्यः - “आचार्य! कच्चिच्छ्रुतं भगवता? आकर्ण्यते यद् भरतेन श्रीरामभद्रस्य पादुके सम्राट्पदेऽभिषिक्ते। अतोऽग्रे चतुर्दश समास्ते एव पादुके समग्रां क्षितिं पास्यत इति।”

तदा सस्मितमाह देशिकः - “अन्वयुङ्क्था ननु मां पूर्वं कथं तरुः सम्राड्भवितेति! पश्येदानीं, सिद्धा हि साकाङ्क्षा!”

“कथमिवैतदघटत भगवन्!”

“वत्स! तक्ष्णा तस्यैव महाद्रुमस्य दारुणा ते पादुके निरमीयेतां, रामाय च न्यदीयेताम्। सहस्राधिकवर्षार्जितेन सुकृतसम्भारेण तपःप्रभावेन च स एवानोकहः पादुकास्वरूपमासाद्य रामभद्रमवाप। रामोऽपि ते भरताय प्रादात्। भरतश्च तयोः राज्याभिषेकमकरोत्। इत्थं सार्वभौमश्रियमासादयेयमिति तरोस्तस्येप्सितं फलेग्रहीबभूव।”

Search
stories/202.txt · Last modified: 2026/06/12 14:28