You are here: Home » stories » 203
202 
 204

परोपकाराय प्रज्ञाप्रकर्षः

चक्रासन्दीमध्यासीना कुसुमस्तबकान् दिदृक्षमाणा काचन जरती पादवैकल्यादारामे निषसाद। स्वयमेवाग्रतो निनीषया तत्पीठं प्रणुदती सा भृशं क्लिश्यमाना बभूव। साहाय्यं तस्या विरल एव कश्चन जन आततान, तद्दिदृक्षया समागतेषु सत्स्वपि।

अदः सर्वं दूरादेव ददर्श जार्जाभिधानः कश्चन युवा। तामुपसद्य स पप्रच्छ - “मातः, काननकुसुमालोकने कथमियती ते रतिः ?” इति।

अथ सा जगाद - “वत्स, विस्मयनीयमिदं निसर्गसौन्दर्यम् ! पश्य, धातुः केयं सृष्टिः यया चित्रवर्णाः प्रसूनस्तब्दकान् निर्ममिरे ! अमीषां वर्णवैभवमालोकयन्त्यहमेवात्र भुवि धन्येति मन्ये।”

तदीयवाग्भिराकृष्टमनाः स तां कानने सर्वतो निनाय। तस्मिन्नवसरे विषमेण पथा नीयमानायास्तस्या आसन्द्या अयस्मयरथाङ्गत्वेन सा जरती भृशं व्यथामवाप। 'कथममुष्याः क्लेशमपनुदेयम्' इति स विततर्क। 'यदीमे चक्रे परितस्तरुनिर्यासपट्टिका बध्येत, तर्हि पीठस्य प्रकम्पनं मन्दीभवेत्' इति विमृश्य स विपणेस्तामुपाहृत्य रथाङ्गयोस्संयोजयामास। तेन च प्रकम्पनजनिता तस्याः पीडा प्रशशाम।

तमाबभाषे प्रहृष्टान्तरात्मिका सा - “वत्स ! नास्त्यावयोः कोऽपि प्राक्तनः संस्तवः। तथापि परोपकारव्रतस्त्वं मदीयां व्यथां व्यपोहितुमुत्तमं कञ्चनोपायमन्वविन्दः। चिरं जीव, प्रथितयशाश्च भूयाः” इति।

स एवायमग्रे यानचक्रनिर्माणकौशलं प्रवर्ध्य 'डन्लप्-टायर्-कम्पनी' इति विश्रुतां संस्थां प्रतिष्ठाप्य शकटादीनां रथाङ्गानि निर्मिमाणो जगति महतीं प्रथामवाप।

202 
 204
Search
stories/203.txt · Last modified: 2026/06/13 13:18