You are here: Home » stories » 207
206 
 208

अनर्थमूलं हि वाग्दोषः

अतिनिद्राप्रथैव कुम्भकर्णस्य विष्टपत्रयेऽपि सुतरां पप्रथे। षण्मासावधिकस्वापस्य तस्येदं खलु किञ्चिन्नैदानिकं वृत्तमुदाह्रियते पौराणैः। आ जन्मन एव महीधराकारोऽसावर्भकावस्थायामेवागण्यमर्त्याञ्जघास। जिघांसया तस्यैरावतमारुरोह सुनासीरः, तमभिययौ च। समरे च तस्मिन् स पौलस्त्यस्तस्यैन्द्रकुञ्जरस्यैकं विषाणं बभञ्ज। सुतरां च तेन तत्रास मघवा, नाकं प्रतिन्यवर्तत, चतुराननाय च सर्वं व्यतिकरं शशंस। सर्वदा निद्राधीन एवासौ भूयादिति तस्मै शशाप विधाता।

उपष्टम्भेन भ्रात्रोर्दशाननविभीषणयोः कमपि महामखमसौ चकार, तेन च परितुतोष परमेष्ठी, यज्ञवाटं चाजगाम। ऐन्द्रं पदं सोऽलिप्सत, वाग्दोषवशात्तु निद्रासनमेवासौ ययाचे। एवमेवास्त्विति सहासमब्जयोनिर्व्याजहार।

अजायत यः प्रमादः, तं यदा दशमुखो बुबुधे, तदासौ तमनुजं प्रबोधयामास - भोः, निर्देवत्वं तावद्वृणीष्वेति। निर्देवत्वमिति सोऽविवक्षत्, किन्तु तद्विपरीतं निद्रावत्त्वं मे प्रयच्छेत्येवासौ वव्रे। तथैवास्त्वित्युवाच सहासमब्जयोनिस्तत्रैवान्तर्दधे च।

सुतरां चिखिदे तेन दशकन्धरः। सोदर्यस्यास्य निद्राव्यसनं कथमपि परिमृज्येतेति स निश्चिकाय, वेधसमुद्दिश्य च दुष्करं तपस्तेपे। तपसोऽन्ते च तस्य पुरस्तात् प्रादुर्बभूव विधाता। ममानुजस्य निद्रावत्त्वमपाकुर्वित्यसौ ब्रह्माणं ययाचे। यः कामः पूर्वमदायि, तस्य प्रत्याहारो न शक्यत इति व्याजहार प्रजापतिः। तच्छुश्राव रावणः, षण्मासान् यावदेवास्य स्वापव्यसनं तिष्ठत्वित्येवमसौ वव्रे च। एवमस्त्वित्युवाच पद्मभवस्तिरोदधे च।

वाग्दोषेणैवेत्थमसौ कुम्भकर्णो घोरं निद्राव्यसनमाससाद। दशकन्धरस्य तु प्रयत्नात्तदीयस्वापस्यावधिः षण्मासान् यावदेवातिष्ठत्।

206 
 208
Search
stories/207.txt · Last modified: 2026/06/17 12:07