You are here: Home » stories » 210
209 
 211

परोपकारफलानुबन्धः

लण्डन्नाम्नि पुरप्रवरे खल्विदमतिवृत्तम्। कर्दमे त्वाकण्ठमवसीदन्तं कमप्यर्भकं ददर्श कश्चित् कारुणिकः। तमुद्दिधीर्षुः स आर्यः पङ्कात् समुद्धृत्य, प्रक्षालितगात्रं च विधाय निजगेहं प्रजिघाय। श्वोभूते तस्य बालत्रातुः फ्लेमिङ्गाभिधस्य विपश्चितो द्वारि किञ्चिद् बृहद् यानं समवातिष्ठत। अवरुह्य च तस्माद् रॅण्डोल्फ्चर्चिलनामा कश्चिदाभिजातः कृतज्ञतामाविष्कुर्वन् जगाद - 'ह्यो यं डिम्भकं पङ्ककुण्डादुदहार्षीः, स मे औरसः। तदस्य प्रत्युपकारधिया किं ते प्रतिपादयानि?' इति।

'मानवतामेवानुरुध्य मयेदमाचरितम्, न खलु फललिप्सया' इति सविनयं प्रतिजगाद फ्लेमिङ्गः, दीयमानं च पारितोषिकं न जगृहे।

अत्रान्तरे तद्गेहान्निष्क्रामन्तं कमपि बालकमवलोक्य 'कोऽयं ते?' इत्यनुयुञ्जाने चर्चिले 'ममायं सूनुः' इति परिचाययामास फ्लेमिङ्गः। तदाकर्ण्य चर्चिलोऽवादीत् - 'अयमपि मे तनयेन सार्धं विद्यामधिगच्छेत्। अस्य शिक्षायाः कृत्स्नं भर्म अहमेवोद्वहेयम्' इति। अथ स फ्लेमिङ्गसूनुः कस्मिंश्चित् प्रख्याते महाविद्यालये वैद्यकविद्यामधिजगाम।

स च फ्लेमिङ्गसूनुरुत्तरकाले 'अलेक्सेण्डर्-फ्लेमिङ्ग' इति नाम्ना प्रथामगात्। अष्टाविंशत्यधिकैकोनविंशतिशततमे (१९२८) च ख्रीस्ताब्दे तेन 'पेनिसिलीन्' इत्यभिधं प्रातिजैविकमौषधमाविश्चक्रे।

कदाचिच्चर्चिलसूनुः फुप्फुसदाहज्वरेण गाढमुपतताप। तदा तेनैव 'पेनिसिलीन्'-भेषजेन स प्राणसंशयादुदतारि। स एवाग्रे 'विन्स्टन्-चर्चिल्'-नाम्ना भुवि ख्यातिं गतः, चत्वारिंशदधिकैकोनविंशतिशततमवर्षादारभ्य (१९४०) पञ्चपञ्चाशदधिकैकोनविंशतिशततमवर्षं (१९५५) यावत् प्रधानमात्यपदमलञ्चकार।

पञ्चचत्वारिंशदधिकैकोनविंशतिशततमे (१९४५) वर्षे तदौषधस्याविष्कारहेतोः स फ्लेमिङ्गो 'नोबल्'-प्रशस्त्या सममानि। भेषजवाणिज्याजीविनस्तदा तस्यौषधस्य स्वाम्यमवाप्तुमैच्छन्। तदर्थं कोटिशो मुद्राः प्रदातुमपि ते सन्नद्धतामभजन्। परन्तु 'लोकानुग्रहकामनया कल्पितस्यास्य कृते नाहं किञ्चिदपि धनं लिप्से' इति ब्रुवाणः स निःस्पृहस्तमर्थसञ्चयमपाचकार।

द्वितीये च महाहवे तेनैवाद्भुतेनौषधेन विंशतिलक्षावरार्ध्या जना मृत्युमुखाद्व्यमोचिषत।

209 
 211
Search
stories/210.txt · Last modified: 2026/06/20 15:07