कर्तव्यनिष्ठायाः परमोत्कर्षः
शल्यकर्मशालां खलु प्रपेदे त्वरितसन्देशमाकर्ण्य समुपस्थितः कोऽपि शल्यवैद्यः।
द्वारदेशे तदागमनमेव सोद्वेगं प्रतिपालयाञ्चकार मुमूर्षोः कस्यचिद्बालकस्य जनकः।
समनुप्राप्तं तं भिषजमवलोक्य रोषारुणलोचनोऽमुमवादीत्— “मृत्युवक्त्रं प्रविष्टप्रायो मे तनयोऽत्र शेते। चिरायायातस्त्वम्। न नूनं ते मनागप्यधिकारापेक्षिता कर्तव्यनिष्ठा विद्यते” इति।
तदाचख्यौ स भिषक्— “भद्र! नास्मिन्नारोग्यनिकेतनेऽहमासम्। आत्ययिकं सन्देशमुपश्रुत्य जवेनैव समाजगाम। सम्प्रति शल्यकर्मार्थं प्रविशामि। विसृज त्वमाधिम्” इति।
“कथं नाम निश्चिन्तता! ईदृशीं विपदमापन्ने तनये, कथमिव जनको विगतचिन्तस्तिष्ठेत्? यद्येतादृशीमवस्थामवाप्स्यत्ते तनयः, तर्हि किं त्वं निश्चिन्तो भवितुमशक्ष्यः?” इति चुक्रोध पिता।
तदापि मन्दस्मितविकसितमुखाम्भोजोऽसौ भिषग्जगाद— “भद्र! न कोऽपि मर्त्यः कस्याप्यायुषो वर्धने हरणे वा प्रभवति, नतरां खलु वैद्यः। तस्मात्स्वपुत्रस्य क्षेमार्थं भगवन्तं प्रार्थयस्व। भिषजा मया यच्छक्यं तदेवानुष्ठीयते” इत्युदीर्य शल्यकर्मशालां खल्वाविवेश।
“सुलभो ह्युपदेशः, दुष्करं त्वनुष्ठानम्” इति स्वगतं जजाप स जनकः।
साफल्येन च खलु निरवर्ति तच्छल्यकर्म।
शल्यकर्मशालाया बहिर्निर्गत्य स भिषक् तं जनकमुद्दिश्यावादीत्— “ईश्वरानुग्रहेण सफलीभूतमत्रभवतः पुत्रस्य शल्यकर्म। सर्वमेवेश्वरकृपया सम्पाद्यते” इत्युदीर्य सत्वरं ततो निश्चक्राम।
तदानुवैद्यामन्तिकस्थामसाववादीत्— “मद्वचसामुपश्रवणाय निमिषमात्रमप्यप्रदाय वेगेन निष्क्रान्तोऽयं भिषक्। अहो! कीदृग्वा नीरसो निष्ठुरश्चायं जनः!” इति।
तदाश्रुपूर्णलोचना सानुवैद्या जगाद— “कस्मिंश्चिदपघाते क्षताङ्गोऽमुष्य तनयः पञ्चत्वमवाप। यदास्माभिरयमाहूतः, तदा स्वतनयस्यान्त्येष्टिकर्मणे प्रस्थित एवासीत्। तदेव परमं कर्तव्यं विहाय परार्थं शल्यकर्मणे समाजगाम। सम्प्रति तमेवासमाप्तमन्त्यसंस्कारमनुवर्तयितुं सत्वरं प्रतस्थे स महाभागः” इति।
तदुपश्रुत्य विस्मयोत्फुल्ललोचनः स जनको वाङ्मनसगोचरातीतं वैक्लव्यमवाप्य जडवदवतस्थे।
स खल्वासाधारणो भिषग्वरो डा-बि-सि-राय-इत्याख्यो यः किल पश्चिमवङ्गराज्यस्य मुख्यमन्त्रिपदमप्यलञ्चकार।