You are here: Home » stories » 240
239 
 241

विनय एव यथार्थं किरीटम्

प्रत्यहं क्षीयमाणां स्वप्रजानामात्मनि श्रद्धां कुतोऽपि निमित्तादुपलभमानः, पूर्वं प्रजावत्सलतया प्रथितोऽपि, कश्चन महीपतिर्विस्मयविषादाकुलितचेता बभूव। 'ये खलु जनाः पुरा मां दृष्ट्वा हर्षगद्गदकण्ठाः सप्रश्रयं प्रणमन्ति स्म, त एवाद्य वीतश्रद्धा इवौदासीन्यं भजन्ते' इति विचिन्तयन्, तस्यास्तु श्रद्धान्यूनतायाः परमार्थतो मूलकारणमनवबुध्यमानोऽसौ भूपालः, कदाचिदेकं नीतिशास्त्रपारीणं वयोवृद्धममात्यमाहूय स्वाशयान्तरगतां चिन्तां निवेद्याप्राक्षीत्—“तात, किन्निमित्तकोऽयमीदृशो मयि प्रजानां श्रद्धाप्रणाशः स्यात्?” इति।

इत्थं पृष्टवति राज्ञि, मन्दस्मितविकसितवदनः स प्राज्ञो मन्त्री प्रत्युवाच—“देव, त्वदीयोत्तमाङ्ग एव खल्वस्य निदानं निगूढमस्ति” इति।

प्रत्युवाच साश्चर्यं साकूतञ्च भूपतिः—“मदीये मूर्ध्नि? केन वाशयेनैतदुच्यते त्वया? सर्वथा दुर्बोधोऽयं ते वचसामर्थः“ इति।

जगादामात्यः—“यदेतत्ते शिरसि विराजते महार्हं राजमुकुटम्, तदेव खल्वस्याः श्रद्धाच्युतेः प्रधानं कारणम्” इति।

“किरीटस्य च श्रद्धाह्रासस्य च कः खलु सम्बन्धः? विशदीक्रियताम्” इति राज्ञानुयुक्तो मन्त्री विशदीचकार—

“श्रूयतां राजन्! प्राक् खलु त्वं मार्गे समुपस्थितान् वयोवृद्धान्, ज्ञानवृद्धान्, सम्भाव्यांश्च जनान् निरहङ्कारं सविनयमवनम्य नमश्चकर्थ। अद्यत्वे तु शिरसि महार्हं राजकिरीटं बिभ्रत्, 'अवनमनेन भ्रश्येन्मे मुकुटम्' इति शङ्कमानस्त्वं तां शिष्टानुमोदितां प्रणामपरिपाटीमेव सर्वथात्याक्षीः। परमार्थतस्तु मुकुटमुद्वहन्नपि सुकरमेव ते नम्रत्वम्। तथापि 'अहमेवास्मि सार्वभौमो राजा, न ममान्यः कोऽपि नमस्यः' इत्येषोऽहङ्कारो मुकुटव्याजेन ते मूर्ध्नि पदं चक्रे। तत एव खलु नमस्कारार्हान् पूज्यान् जनान् त्वं न नमस्यसि। दर्पान्धकारोपहतेषु जनेषु प्रकृतीनां स्वाभाविक्य आदरबुद्धयो विनश्यन्तीत्यत्र किमु चित्रम्?” इति।

अमात्यवचसा विनष्टाहङ्कारो राजा तत्सर्वं तथ्योपेतमेवेति सम्यङ्निश्चित्य, 'अहो धिगहङ्कारम्, यो मामेवं लोकविद्विष्टमकरोत्' इति सन्तप्य, तदाप्रभृत्येव स्वाचरणे नितान्तां नम्रतामभजत।

राज्ञस्तमपूर्वं निरहङ्कारं विनयमधुरं शीलं प्रत्यक्षीकृत्य, भृशं प्रमुदिताः प्रकृतयः। अचिरेणैव कालेन स राजा सर्वेषामपि पौरजानपदानां भूयोऽपि परमां श्रद्धां लेभे।

239 
 241
Search
stories/240.txt · Last modified: 2026/07/31 08:02