You are here: Home » stories » 274
273 
 275

सिद्धगर्वप्रणाशनम्

आलन्दीक्षेत्रमध्यावसति भगवति ज्ञानदेवे पुरा किल वृत्तमिदम्। तस्मिन्नेव समये तपत्यास्तीरमुपाश्रित्य चाङ्गदेवाभिधानः कश्चिद्योगीन्द्रः स्वाश्रमपदमधिशेते स्म।

असीमप्रभावाढ्यस्यामुष्य दिगन्तेषु प्रथिमोदजृम्भत। अगणितशिष्योपसेवितोऽसौ यदा क्वापि प्रतस्थे, तदा सहस्रशो भक्तास्तमन्वयुः। अहो, निजसिद्ध्यतिशयावलेपस्तस्य चेतसि सुदृढं न्यविशत।

श्रुतिपथमागतमथ कदाचिदमुष्य ज्ञानदेवस्य लोकोत्तरं यशः। दिदृक्षुश्च तं महात्मा स खल्वालन्दीमभिलक्ष्य प्रतस्थे। शार्दूलपृष्ठमधिरूढस्यास्य दक्षिणपाणौ त्रिशूलं, सव्यकरे च भुजङ्गमयी कशा रराजतुः। अनुजग्मुश्च तं सहस्रशो भक्ताः।

उपश्रुत्य चाङ्गदेवस्याभ्यागमवार्तां ज्ञानदेवसहोदरस्तमभाषत - “आर्य, महात्मैष चाङ्गदेवः। अतिथिरसावस्माकम्। अतिथिसत्कारश्च नः सनातनः पन्थाः। तस्मात्तं जवेन प्रत्युद्गच्छाम तावत्” इति।

हेमन्तसमयः किलासीत्। कुड्यखण्डमध्यासीन आसीज्ज्ञानदेवो हिमापहमर्कोष्माणं सेवमानः। भ्रातुर्गिरं निशम्य स कुड्यमेवमादिदेश - “अये भित्ते, प्रचल” इति।

तत्क्षणमेव तत्कुड्यं पुरस्तात्प्रचचालेत्यद्भुतम्। कुड्यखण्डमारुह्याभ्यागच्छन्तं ज्ञानदेवं दूरादेव निभाल्य चाङ्गदेवो विस्मयाविष्टचेताः स्तम्भीबभूव।

'अचेतनमपि कुड्यं सञ्चालयितुं प्रभवतोऽस्य महात्मनो योगप्रभावोऽनतिलङ्घ्यः' इति विमृशन्स द्राक् शार्दूलादवरुह्य करतलगतं शूलं भुजङ्गमयीं कशां च दूरमुत्सृज्य सत्वरमुपसृत्य ज्ञानदेवस्य चरणारविन्दयोर्निपपात।

निजयोगैश्वर्यविषयकोऽमुष्य यो लेलिहानो दर्पः समैधत, स सर्वथैव चूर्णीबभूव।

273 
 275
Search
stories/274.txt · Last modified: 2026/08/26 12:21