वैरत्यागेनात्मतत्त्वावबोधः
वैराग्निना भृशं दह्यमानावमू पुरा खाण्डिक्यकेशिध्वजौ नाम नृपती बभूवतुः। रणशिरसि कदाचित् केशिध्वजेन निर्जितः खाण्डिक्यः परिहृतराज्याधिकारोऽमात्यैः साकमरण्यं प्रविश्य तत्रैवावसत्। तथाप्यमू नृपती उभावपि विदिताध्यात्मतत्त्वावेवास्ताम्।
अथैकदा विततयज्ञे केशिध्वजे सति, केनापि पञ्चास्येनामुष्य होमधेनुर्व्यापादिता। पाप्मनोऽमुष्य फलं नूनमनुभोक्तव्यमापतितममुना। ततस्तत्प्रायश्चित्तमन्विच्छन्नसौ नृपो विद्वद्ब्राह्मणान् पप्रच्छ। जगदुश्च ते— 'अमुष्य पापस्य निष्कृतिमुपदेष्टुं खाण्डिक्य एवैकः प्रगल्भते' इति।
अमित्रोऽप्यसाविति विगणय्य, वैरभावमपास्य केशिध्वजः खाण्डिक्याश्रमं प्रति प्रतस्थे। दूरादेवाभ्यागच्छन्तं तमालोक्य खाण्डिक्यामात्याः प्रोचुः— 'त्वां निहन्तुमेवायमभ्येति' इति। अथापि भयमविन्दन् खाण्डिक्यः प्रत्युद्गम्यातिथिं तं विधिवत्सत्कृत्य, पृष्टः सन् प्रायश्चित्तविधिमशेषेण तस्मा उपदिदेश।
अथावाप्तकामः केशिध्वजः स्वपुरं प्रतिनिवृत्य, प्रायश्चित्तमाचर्य, क्रतुं तं यथाशास्त्रं समापयाञ्चकार। 'ज्ञानदात्रे गुरवे खाण्डिक्याय गुरुदक्षिणा दातव्या' इति सङ्कल्प्य स भूयोऽपि तदाश्रमं ययौ। एतस्मिन्नन्तरे खाण्डिक्यसुहृदो मन्त्रिणश्च तमूचुः— 'यत्त्वदीयं राज्यमनेनापहृतं, तदेव प्रतिलभस्व' इति। किन्तु राज्यलिप्साविहीनोऽसौ खाण्डिक्यो नैतदन्वमन्यत।
यदा केशिध्वजो गुरुदक्षिणां प्रास्तावीत्, तदा खाण्डिक्यस्तमुवाच— 'तात! संसारपाशच्छेदनपटीयांसमध्यात्मयोगमेव त्वत्तो गुरुदक्षिणात्वेन लिप्से' इति।
अनेन विगलिताहङ्कारेण वचनेन भृशं प्रीतोऽसौ केशिध्वजः स्वविदितां परमामध्यात्मविद्यां तस्मा अशिषत्।
अस्या विद्याया निरन्तरं निदिध्यासनं कुर्वाणः खाण्डिक्यो भवबन्धनान्मुमुचे। केशिध्वजोऽपि कालान्तरेण कैवल्यपदमध्यारुरोह।
निसर्गकठोरं वैरभावं निर्मूल्य, परमेणौदार्येण परस्परं व्यवहृतवन्ताविमौ खाण्डिक्यकेशिध्वजौ नूनं महात्मानौ खल्वभूताम्।