स्वाभिमानस्य सत्फलम्
आजीवनं परोपकारव्रतदीक्षित एव व्यनैषीत् स्वमायुर्विद्यासागरोपाख्यो महाभाग ईश्वरचन्द्रः। वङ्गविषयं कवलीकुर्वति भयावहे क्षामे, पञ्चपञ्चाशदधिकेऽष्टादशशततमे ख्रीस्ताब्दे समजायतेयमाख्यायिका।
अथ दारिद्र्योपहतोऽपि कश्चिद्बालः महाभागममुमुपगम्यैकरूप्यकमात्रमृणरूपेणायाचिष्ट। बालकस्य वदनाम्बुजे स्फुटमुल्लसति स्म कश्चनानिर्वचनीयः स्वाभिमानः। तदवलोक्य विस्मितो विद्यासागरस्तमप्राक्षीत् - “अङ्ग, यद्यहं तुभ्यं पञ्च रूप्यकाणि दद्याम्, तर्हि तैः किं चिकीर्षसि त्वम्?” इति।
इत्यनुयुक्तोऽर्भकः प्रत्यवादीत् - “आर्य, मा स्म भून्ममोपहासः। दारुणविपन्निगृहीतोऽस्मि” इति।
“नैवोपहासबुद्ध्या मयैतत् पृष्टम्। अपि तु मया प्रदीयमानेन धनेन किं नाम विधास्यसि त्वम्?” इति पर्यपृच्छद्विद्यासागरः।
अर्भको बभाषे - “तत्रार्धं जनन्यै प्रदास्ये, अवशिष्टेन चान्नादिकं क्रेष्ये” इति।
“यद्यहं दश रूप्यकाणि वितरेयम्?” इति पप्रच्छ विद्यासागरः।
प्रश्नेनानेनाहतस्वाभिमानो बालकः किञ्चिदुत्तरमदित्संस्ततश्चलितुं प्राक्रमीत्। तस्य गमनं रुन्धानो महाभागोऽवोचत् - “वत्स, दीयतां मे प्रश्नस्योत्तरम्” इति।
बालक उवाच - “दिनद्वयस्य प्राणयात्रायै पञ्च रूप्यकाण्युपयोक्ष्ये। अवशिष्टेन धनेन च किञ्चन पण्यं क्रीत्वा, तद्विक्रयोपार्जितं लाभं सञ्चयार्थं जनन्याः करकमलयोः समर्पयिष्यामि” इति।
तदुत्तरं निशम्य सुप्रसन्नो विद्यासागरो विंशतिरूप्यकाणि तस्मै प्रदाय ततः प्रतस्थे।
अथातीतेषु कतिपयेषु वत्सरेषु, कदाचिन्मार्गे सङ्गतः कश्चिद्युवा विद्यासागरं साष्टाङ्गं प्रणम्य सप्रश्रयमनुरुध्य च स्वकीयां विपणिं प्रति तमनैषीत्।
तत्र च स युवा प्राक्तनं वृत्तान्तं स्मारयन्निगदितवान् - “आर्य, यदाहं बाल आसम्, तदा भवता यद्धनं कारुण्यात् प्रदत्तम्, तेनैव मूलधनेन वाणिज्यं कुर्वता मयेयं सुस्थितिरासादिता” इति वदन् स पुनरपि तं महाभागं दण्डवत् प्रणिपपात।
तच्छ्रुत्वा परं प्रहृष्टो विद्यासागरस्तं शशंस - “साधु भोः साधु! मया वितीर्णमल्पमपि धनमुपयुज्य स्वपरिश्रमेण त्वया यादृशी विपुलश्रीरवाप्ता, सा खलु मे महान्तं प्रमोदमादधाति” इति।