You are here: Home » stories » 276
275 
 277

अकिञ्चनस्य ज्ञानयज्ञः

आङ्ग्लदेशावतंसभूते लण्डन्नाम्नि पुरि कश्चिदकिञ्चनो माणवक उवास। निसर्गत एव वाग्दोषदूषितत्वादमुष्य विद्याधिगमे न कश्चित्प्रकर्षो बभूव। निजवृत्त्यर्थं त्रयोदशहायन एवासावेकस्यां पुस्तकग्रथनविपण्यां पुस्तकग्रन्थकत्वमङ्गीचक्रे। दिवा ग्रथनकर्म परिसमाप्य निशायामापणादानीतान् प्रबन्धान् समुद्घाट्य सोत्साहमध्यगीष्ट। तडिल्लताविज्ञानतत्त्वबुभुत्सा त्वमुष्य चेतसि भृशं दिदीपे।

प्राप्तयौवनोऽसौ कदाचित्काञ्चिद्विज्ञानप्रदर्शिनीं दिदृक्षुर्जगाम। तत्र हि ‘हम्फ्रीडेवी’त्याख्यः कश्चिद्रसायनतन्त्रनिष्णातो विद्वान्सभापतिपदवीमधितस्थौ। सभायां तस्यां बहुभिर्विद्वद्भिर्नानाविज्ञानतत्त्वमधिकृत्य वाचः प्रयुयुजिरे। अनेन यूना तत्सर्वं स्वस्मरणपुस्तिकायां न्यलेखि। निशीथे च त्रिशतपृष्ठपरिमितस्य ग्रन्थस्य ग्रथनमप्यनेन समपादि। अन्येद्युस्तस्य रसायनविदुषो निवेशनमुपेत्य तं ग्रथितप्रबन्धमस्मै न्यवीविदत्। तमालोक्य पठित्वा च परं प्रहृष्टान्तरात्मा स विद्वानमुं स्वसहायकपदे नियुयोज।

तत्कालीनजगति वैज्ञानिका वैद्युतोर्जायाः सत्त्वमवगच्छन्तोऽपि तस्या व्यावहारिकमुपयोगं न विदुः। स एष युवा स्वगुरोः साहाय्यमाचरन्नेव प्रयोगानपि परिशीलयन्नेकदा सर्वेषां समक्षं सप्रयोगं प्रत्यपीपदद्यद्वैद्युतोर्जया यन्त्राणां सञ्चालनं शक्यमिति। वार्तेयं दिगन्तेषु पप्रथे।

“यथा विद्युत्स्रोतोऽयस्कान्तशक्तिं प्रसूते तथैवायस्कान्तशक्तिरपि विद्युदुत्पादनायालम्” इति प्रतिपादयतानेनायस्कान्तवैद्युतशक्त्योर्नियमा विवव्रिरे।

अमुष्यैव महात्मनो नामधेयं ‘मैकल-फेरेडे’ इति। अधुनातने व्यवहारे व्यजनमिश्रकविमानधूमशकटवाहननौकादिषु यन्त्रेष्वमुष्यैवाविष्कारस्योपयोगो विधीयते।

275 
 277
Search
stories/276.txt · Last modified: 2026/08/26 12:23