बालगुरुज्ञानेश्वरस्येन्द्रियजयः
देशिकस्य कस्यचित्तपोवनमाससाद पञ्चदशहायनः कश्चिद्वटुः। उपेत्य च बद्धाञ्जलिस्तमुवाच—“भगवन्, ऐहिकविषयभोगेभ्यो भृशमुद्विजते मे चेतः। तस्माद्भवपाशान्मुमुक्षुं मां संन्यासदीक्षाप्रदानेनानुग्रहीतुमर्हसि” इति।
आश्चर्यस्तब्धो देशिकस्तस्य वचो निशम्य प्रत्युवाच—“वत्स, अतीव बालस्त्वम्। सवयोभिः सह क्रीडाभिरेव कालो नेयस्त्वद्विधैः। क्षुरधाराव्रतसमः खल्वयं निवृत्तिमार्गः। अत्र हि दुर्निग्रहं चञ्चलं मनो नियन्तव्यम्, दुर्लभा चैकाग्रता संपाद्या। प्रापञ्चिकसुखानि सर्वथापहाय तीव्रोपवासैः कायः क्लेशनीयः। किमेतत्सर्वमनेन बालदेहेन सोढुं शक्नुयाः? वैराग्यस्यापि कश्चित्कालविशेषो वर्तते। प्राप्ते तस्मिन्काल एव प्रत्यागच्छ। इदानीं गृहमेव गच्छ” इति।
निराचकारैतद्गुरोर्वचो दृढव्रतः स बालकः, भूयो भूयश्च संन्यासदीक्षार्थमेव प्रार्थयामास। ततो गुरुरगादीत्—“अस्थाने खल्वयमत्याग्रहः। काञ्चित्परीक्षां तव विधास्यामि। यद्यमुष्यामुत्तीर्णः स्यास्तर्हि संन्यासदीक्षां ते दास्यामि। किं तां परीक्षायै सज्जस्त्वम्?” इति।
“सर्वविधां परीक्षां संमुखीकर्तुं सन्नद्ध एवास्मि” इति प्रत्यवोचत् स वटुः।
ततो गुरुस्तस्य जिह्वायां खण्डशर्कराशकलमेकं निदधौ। स तु बालको बद्धपद्मासनः पाषाणप्रतिमेव निष्कम्पं तस्थौ। व्यतीतेऽपि घटिकामात्रे काले नैव सा शर्करा द्रवीभूता, नापि तस्य मुखाल्लालारसलवोऽपि प्रादुरभूत्।
एतदद्भुतं विलोक्य परं विस्मयमुपगतो देशिकस्तमुवाच—“वत्स, एनां मनोलयावस्थां प्राप्तुं मया बहुवर्षाणि यावदुग्रं तपस्तप्तम्। साक्षान्महात्मैवासि त्वम्। अतिबाल्ये वयस्येव त्वया सम्पूर्णं जितेन्द्रियत्वमधिगतम्। मदीयायां परीक्षायां त्वमेव जयी। योगमार्गे प्रस्थातुं या खल्वचञ्चला श्रद्धा, यो वा दृढनिश्चयः, यश्चात्मविश्वासोऽपेक्ष्यते, तत्सर्वं त्वयि निसर्गत एव स्फुरति। तस्मादद्यैव तुभ्यं संन्यासदीक्षां वितरामि। विजयी भव” इत्युदीर्य तमाशीर्भिरन्वगृह्णात्।
स एवायं महामहिमा बालको भाविनि काले ‘महात्मा ज्ञानेश्वर’ इति नाम्ना भुवनविदितो बभूव।