पारतन्त्र्ये कुतः कृतज्ञतानुबन्धः
त्त्रिसप्तत्यधिकाष्टादशशततमे वत्सरे प्रावर्ततेदमुपाख्यानम् । तदा हि निखिलनिगमपारदृश्वनः परिव्राजकधौरेयस्य दयानन्दस्वामिनः सन्दर्शनं लार्डनार्थब्रुकनामा राजप्रतिनिधिः कदाचिच्चकमे । अमुं च तयोः समागमं धर्माध्यक्षः प्रागेव समजीघटत् ।
अथार्हानुरूपं सपर्याविधिं तस्मै संयमिश्रेष्ठाय प्राचीक्लपत्स राजप्रतिनिधिः । अवसिते च तस्मिन्नातिथ्योपचारेऽसौ तमाबभाषे — “अयि दयानन्द ! सकलामिमां भारतभुवं पर्यटन्धर्मं प्रथयसीत्याकर्ण्यते । स्वमतव्यवस्थापनावसरे च परसमयनिरासोऽप्यपरिहार्यतामेत्येव । ततश्च परमतानुयायिनस्त्वयि जातरोषाः स्युरपि । तत्किं तवाभिरक्षणायास्माभिरवधातव्यम् ?” इति ।
“न खलु तत्रापेक्षा काचिद्वर्तते । आत्मपरित्राणे तावत्प्रभविष्णुरेवाहम् । किञ्चास्मिन्नर्थे न मनागपि चिन्तामुद्वहामि । धर्मप्रथनविधौ च न कोऽपि प्रत्यूहः समालोक्यते” इति दरस्मितोद्भासितमुखो दयानन्दः प्रत्यवादीत् ।
“यत्खलु तव पथि न कोऽपि प्रत्यूहलेशो लक्ष्यते, तत्रास्मदीयः शासनप्रभाव एव निदानम् । तस्मादस्मदीयमिदं शासनमधिकृत्य त्वया कृतज्ञतानुबन्ध उद्वोढव्य एव” इति दर्पध्मातचेताः स राजप्रतिनिधिरवलेपोद्धुरया गिरा प्रावोचत् ।
तदाकर्ण्य सागरधीरया गिरा दयानन्दस्तमाचचक्षे — “कस्य हेतोः कृतज्ञताभारोऽयमस्माभिरुद्वोढव्यः ? निखिलेष्वपि कर्मपथेषु भारतवर्षमभ्युदयं परां च समृद्धिमश्नुवीतेत्येव मे गरीयान्मनोरथः । किन्तु यावदियं भारतभूमिः पारतन्त्र्यनिगडेन यन्त्रिता क्लिश्येत, तावदेतत्सर्वं गगनकुसुमायेतैव । उन्मुच्य दास्यपाशं स्वातन्त्र्यमियं राष्ट्रभूरधिगच्छेदित्येवाहं कामये । अतोऽस्मिन्नवसरे सप्रश्रयं त्वां स्मारयितुमुत्सहे — यद्यमूं भारतभुवं यूयं सगौरवं जह्यात, तर्ह्येव सत्यं गौरवं युष्माभिरासाद्येतेति । प्रजानां हि समीहितमवमृद्य सुचिरं यावदाधिपत्यं सन्धर्तुं नैव शक्येत” इति ।
इदमकुतोभयमोजस्वि च वचो निशम्य विस्मयजडीकृतः स राजप्रतिनिधिः क्षणमचेष्टोऽवतस्थे । अनिमिषया च दृष्ट्या तस्य महामनसो दयानन्दस्य तेजःप्रोज्ज्वलं वदनमण्डलं निर्वर्णयाञ्चकार ।