शिवसङ्कल्प एव सदा भावनीयः
दिगन्तविश्रान्तकीर्तिः खलु समृद्धिललामभूतं विजयनगरसाम्राज्यं क्षितिपतिः कृष्णदेवरायः प्रशशास । तत्सदःपारिषदो नयशास्त्रकोविदस्तेनालीरामोऽप्यत्र चकाशे प्रथितधीवैभवः । निर्व्याजममुष्य भावमाकलय्य गरीयांसमेवास्मिन्प्रेमाणं विश्रम्भं च स भूपतिरादधे ।
अथ कदाचिद्विजिहीर्षया पौरजनसङ्कुलं कञ्चन पुरैकदेशं भूपती रामश्च समगाताम् । पथि च दृष्टिपथमवतीर्णाः सकलाः प्रकृतयः प्रश्रयप्रह्वमौलयस्तौ नमस्यन्त्यो व्यतीयुः । तत्र च यदृच्छयोपेयिवान्कश्चित्तक्षापीमावभिवाद्य पुरः प्रायासीत् । किन्तु तदपक्रमणात्प्रभृति किमप्यकाण्डजं वैमनस्यमरतिं च स भूपतिरन्वभूत् । अथ राजकुलं प्रतिनिवृत्य स राममुवाच — “अमुष्य खलु तक्ष्णः सन्दर्शनात्प्रभृति सीदतीव मे मानसं, निःशेषं चास्तमितेव चेतसो निर्वृतिरिति” । रामस्तु जोषमेवैतदश्रौषीत् ।
अथ व्यतीतेषु द्वित्रेष्वहःसु पुनरपि तौ विहर्तुं नगराभिमुखं प्रतस्थाते । अस्मिन्नपि वासरे स एव वर्धकिः पथि चक्षुर्विषयमवातरत् । सोऽपि प्रहृष्टमनाः क्षितिपतिं प्रणिपत्योच्चैर्जयशब्दमुदीर्य पुरस्तादगात् । राजकुलं प्रतिनिवृत्तः सविस्मयो भूपतिः समभाषत रामम् — “अद्याप्यदर्शि मयासौ वर्धकिः । परमद्य तमालोक्य प्रसीदतितरां मे हृदयम् । यस्यैव हि दर्शनात्पूर्वेद्युररतिरुदियाय, तस्यैवालोकनादद्य सौमनस्यमुदभूत् ! किमत्र निदानमिति” ।
अथ तेनालीरामो व्यजिज्ञपत् — “देव, विद्यत एवात्र किमपि गूढं निदानम् । पूर्वेद्युस्तव दर्शनावसरे तस्य तक्ष्णश्चेतसीदृशोऽशिवः सङ्कल्पः प्रादुरभूत् — 'यदि नाम राजकुले कश्चिन्म्रियेत, तर्हि मत्सकाशाद्बहूनि चन्दनदारूणि क्रीयेरन्, तेन च मे जीविका सुष्ठु कल्पेतेति' । अत एव तव चेतस्यसावरतिरुदपादि । अद्य तु तव दर्शनात्प्रागेवाहं तं तक्षाणमवोचम् — 'महाराजस्य जन्ममहोत्सवाय बह्व्यः आसन्द्यः विरचनीयाः सन्ति । तांस्त्वं शिल्पकौशलेन विनिर्मायोपहर, तुभ्यं च भूरि द्रविणं प्रदास्यत इति' । तेन प्रीतचेताः स वर्धकिस्त्वामालोकयमान इत्थमध्यायत् — 'चिरं जीव्यान्महाराजः, येन तज्जन्मोत्सवनिमित्तं ममापि प्रतिवत्सरमर्थोदयः सम्पद्येतेति' । अतस्तदीयेन शिवसङ्कल्पेनानुविद्धे त्वय्येषा प्रीतिरुदियाय । तस्मादेव प्राज्ञा आचक्षते — शिवसङ्कल्प एव सदा भावनीय इति” ।