You are here: Home » stories » 352
← 351 
 353 →

भावग्राही जनार्दनः

अथैकदा कस्यचन ग्रामीणकृषिकस्य गृहपार्श्ववर्तिना पथा श्रुतिस्मृतिविशारदः कश्चन पण्डितः सञ्चचार। तस्मिन्नेव क्षणे भक्तिरसार्द्रचेताः स ग्राम्यः कृषिकः प्रणयगद्गदया गिरा भगवन्तमभ्यर्थयाञ्चक्रे। आयाहि मे निलयं करुणानिधे भगवन्। भोज्यं ते दास्यामि। श्रान्तः खलु स्यास्त्वम्। आगच्छात्र कुटीरे। सुखशय्यां ते परिकल्पयिष्यामि। संवाहयिष्यामि ते चरणयुगलम्। शनैर्व्यजनेन च वीजयिष्यामीति।

अमुना तु विदुषा सा तस्य मुग्धप्रार्थना शुश्रुवे। निराकारो हि परमेश्वरो न तस्यास्ति देहादिकम्। एवं स्थिते कथङ्कारं नु भुञ्जीत सः। कथं वा क्लममवाप्नुयात्। कथञ्च शयीत। अविवेकिनोऽस्य कृषिकस्य प्रार्थना तु सर्वथैवासम्बद्धप्रलापसङ्काशा। सम्यग्विनेयोऽयं मया मूढ इति तस्याज्ञानमपनिनीषुः स पण्डितोऽमुष्य गृहं विवेश। प्रविश्य च सावज्ञमवादीत्। अये अविवेकिन्। अपरिच्छिन्ननिराकारो भगवान्साकारत्वेन निर्दिश्यते त्वया। निद्राश्रान्त्यादिकमप्यमुष्मिन्सम्भाव्यते। महते खलु दुरितायैतत्। नैव हि भुङ्क्ते महेश्वरो न वा स्वपिति। सर्वथाप्यनुचितमिदमिति।

तदेतत्कर्णशूलसङ्काशं वचो निशम्य नितरां दिग्भ्रान्तोऽभवत्स वराकः। ततश्च नम्रीभूय तं विप्रमभिवाद्य साञ्जलिबन्धमवोचत्। आर्य। अनधीतशास्त्रो नाहं विद्याधनः। प्रार्थनाक्रमस्यापि लेशं न वेद्मि। अनौचित्यं मदीयस्य प्रार्थनाक्रमस्य न खलु मया विज्ञातमासीत्। दिष्ट्या भवानिह समुपस्थितः। कृपया शास्त्रानुमोदितः समीचीनः प्रार्थनाक्रमो मह्यमुपदिश्यतामिति।

अथासौ पण्डितस्तमुपवेश्य शास्त्रीयं प्रार्थनाक्रममध्यापयामास। तदर्थञ्च कतिपयान्वेदमन्त्रानपि तस्मा उपादिशत्। आसायङ्कालञ्चायं तस्य यत्नः प्रववृते। ततः समीचीनक्रमोपदेशेन मया कश्चिदज्ञो मोहान्धकारादुद्धृत इति गर्वाविष्टचेताः प्रचिन्तयन् स सद्म स्वकीयमगात्।

अथ परेद्युः प्रत्यूषे प्रार्थनार्थमुपविष्टः स ग्राम्यः कृषिकः पण्डितोक्तं तं क्रमं भूयसा परिश्रमेण यतमानोऽपि स्मर्तुं नैवाशकत्। असमीचीनः खलु मम पूर्वक्रम इति तु वेत्ति सः। परं विप्रेण बोधितः क्रमस्तु नैव स्मृतिपथमवतरति। ततो हतप्रज्ञ इव किङ्कर्तव्यताविमूढः स नितरां तन्तप्यमानो बभूव। आदिनञ्चास्य हृदयं सन्तापानलेन दन्दह्यमानमेवासीत्।

अथ निशीथे स्वप्नगोचरं गतो भगवान्साक्षाद्भूत्वा तं पण्डितमवादीत्। भोः पण्डित। ग्रामीणस्यास्य कृषिकस्य प्रार्थनाक्रममनुचितमाचक्षाणेन त्वया गुरुतरमपराद्धम्। न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनामिति गीतावचनं किं नु विस्मृतं त्वया। अधुना स वराकः कृषिकः स्वकीयेन क्रमेण क्रियमाणामाराधनामनुचितामिति मन्यते। त्वयोपदिष्टः क्रमस्तु तेन न स्मर्यते। परिताम्यति हि स भृशम्। तस्मादहमपि सुतरां परितपामीति।

भगवतोऽमुं निगदमाकर्ण्य विमलीभूतचेताः सद्यः प्रबुद्धविवेकः संजज्ञेऽसौ पण्डितः। उषस्येव शय्यामुत्सृज्य च तस्य कृषिकस्य निलयमगात्। तत्र गत्वा सद्भावार्द्रया वाचा तमवोचत्। भो भ्रातः। स्वीयेनैव क्रमेण समर्चय परमेश्वरम्। मया बोधितं विस्मृतमिति मा शुचो मा वा चिन्तां कार्षीः। प्रार्थनायां भाव एव प्राधान्यमावहति न तु भाषादिप्रपञ्चः। गरीयसी हि भक्तिः। येन केनापि क्रमेण प्रकाशिता भक्तिर्भगवन्तं ध्रुवमधिगच्छेदेव। अतः स्वीयेन प्राक्तनेनैव क्रमेणाभ्यर्चय देवमिति। ततोऽमुष्मिन्ग्राम्यकृषिके निजक्रमेण प्रार्थनायामुद्यते सति स पण्डितोऽपि तदीयामेव सरणिमनुसरन्भक्तिभावेन देवमर्चयाञ्चकार।

← 351 
 353 →
Search
stories/352.txt · Last modified: 2026/11/14 09:28