You are here: Home » stories » 4
3 
 5

धीधनो रोहकः

मालवेषूज्जयिन्या नातिदूरे कश्चिद् ग्रामकोऽवर्तत । तत्र रोहकाभिधानः कश्चिन्मेधावी कुमारकः प्रोवास । एकदा स क्षिप्रारोधसि किमपि धरण्यां विलिखन्नास्त । तमेव कालं भटैः परिवृतो विहरन् कश्चिन्नरपतिस्तं प्रदेशमुपागात् । तेन व्यलोक्यत यदेतेन कुमारेण समग्रापि वैशालिनी स्वेनैव पाणिना सरित्पुलिनेषु समुट्टङ्कितासीदिति । अथ स भूपतिस्तस्मात् स्थानान्निरगच्छत् । असावन्तश्चिन्तयामास - ‘अहो, धुरन्धरसचिवपदमर्हत्ययं डिम्भः । अस्य तु मतिप्रकर्षो मया नियतं परीक्षितव्य एव’ इति ।

इत्थं मनसि विनिश्चित्य स नृपतिस्तस्य कुमारस्य द्वित्राः परीक्षाः प्रकल्पयामास । अपरेद्युश्च तेन तद्ग्रामीणानां कृते शासनेन विज्ञापितम् - “आशु सिकतामया रज्जवो विरच्य समुपह्रियन्ताम्” इति । राजाज्ञा तु नूनमनुल्लङ्घनीया । परन्तु वालुकारज्जवः कथं नाम निर्मातव्या इति कोऽपि तत्रत्यो जनो न विवेद । केनचित्प्रकारेण रोहकस्य कर्णपथमेतदागतम् । स ग्राम्याग्रणीनुवाच - ‘आर्याः ! विज्ञापयन्तु भवन्तो भूपतिं यत् “राजकीयभाण्डागारे प्राक्तनी काचन सिकतारज्जुर्विद्येत । तां तावत् प्रथमं प्रेषयतु भवान् । तस्या आदर्शमनुसृत्य वयमपि नूतना रज्जूः स्रक्ष्यामः” इति ।’ रोहकस्येदं प्रज्ञालाघवं निशम्य सकलस्तद्ग्रामजनः प्रमुदितमना बभूव । एतादृशीं प्रत्युक्तिमाकर्ण्य स पार्थिवस्तूष्णीम्भावमभजत् ।

अथ कतिपयदिवसेष्वतीतेषु राजा कञ्चित् ताम्रचूडं तद्ग्रामाभिमुखं प्रहित्यैवमादिदेश यत् “रोहकेणैकाकिनामुना कुक्कुटेन सह योद्धव्यम्” इति । रोहकस्तु स्वाभिमुखे कञ्चिदादर्शं न्यधात् । तत्र च स्वप्रतिरूपं निरीक्ष्य क्रुध्यन् स ताम्रचूडः स्वयमेव तेन साकं युयुधे । राजभृत्यैस्तथा निवेदितः स भूपतिस्तस्य प्रज्ञया परितोषमगात् ।

पुनरपि कदाचिद्राज्ञा तद्ग्रामं प्रत्यादेशः प्रेषितो यत् “स्वादूदकपूर्णः कूप एकोऽविलम्बितमस्मदन्तिकं प्रेष्यताम्” इति । तेन धीधनेन रोहकेण तत्क्षणमेव नृपो व्यज्ञाप्यत - ‘देव ! अस्मद्ग्रामभवः कूपस्तु स्वभावतो ह्रीमान् भीरुश्च वर्तते । सजातीयमुदपानमन्तरेण नान्यस्मिन् कस्मिंश्चिदपि विश्वासमेति । अतो भवदीय एव कूपः प्रथमं प्रेष्यताम्, येन सार्धं सख्यमुपेत्यास्मत्कूपोऽपि द्रुततरं भवन्नगरमुपैष्यति’ इति । इत्थं राजकिङ्करैर्विज्ञापितो महीपतिस्तस्येदृशं मतिचातुर्यं पर्यालोच्य भृशं प्रमुमोद ।

एवमाभीक्ष्ण्येन परीक्षितोऽपि स रोहकः सर्वास्वेव परीक्षासूदतरत् । तस्मात्स नरपतिस्तं सादरं स्वराजधानीमाहूयामात्यपदे न्ययुङ्क्त ।

3 
 5
Search
stories/4.txt · Last modified: 2025/11/19 13:35