सौमित्रिहासः
अथ चतुर्दशहायनावधिवनवासव्रतमुत्तीर्य प्रत्युपगतवतः कोसलपतेः श्रीरामस्य पट्टाभिषेकमहोत्सवः प्रावर्तत । कनकसिंहासने वैदेह्या सह रघुकुलतिलकः समुपविवेश । सविधे सौमित्रिरपि निषसाद । भरतशत्रुघ्नौ भृङ्गारव्यजनपाणी पार्श्वयोस्तस्थतुः । धृतच्छत्रचामरादिराजचिह्नाः प्लवगवीराः परितः परिवव्रुः ।
सहसा तदानीं लक्ष्मणो जहास । सर्वेषां चक्षूंषि तं प्रत्यधावन् । स तु मन्दस्मितपुरःसरं जृम्भमाणः सद्य एव निद्रावशीभूतस्तस्थौ ।
कुत एष हास इति सर्वेषामपि कौतुकमाश्चर्यं च समजनि । पृथक्पृथक् कारणं कल्पयन्तः सर्वेऽपि स्वमनसि पर्यदेवयन् ।
‘नूनं राज्यलिप्सया ज्यायांसं रामं काननं प्राहिणवमित्येवं मयि सोपहासं हसत्ययम्’ इति भरतः सखेदं दध्यौ । ‘निजसोदरं वालिनं निहत्य तद्राज्यं बलादपहृतवानहमित्येवं मां लक्ष्यीकृत्य हसितवान् स्याल्लक्ष्मणः’ इति प्लवगाधिपः सुग्रीवो विममर्श । ‘महावीरोऽप्यहं रामपाददास्यं चरामीति मत्वा नूनं लक्ष्मणेन हसितम्’ इति मरुतसुतश्चिन्तयामास । ‘अग्रजं रावणं जहाय शत्रुभूतस्य रामस्य पक्षमाश्रितवानहमिति हासः स्पृशेत्’ इति लङ्कापतिर्मेने । ‘मन्त्रोच्चारणेऽस्माभिः कोऽपि स्वरवर्णलोपः कृतः स्यात्किम् ?’ इति शङ्कमानाः विपश्चितः पर्यतपन् ।
ततो हनूमान् लक्ष्मणं प्रबोधयितुं यतते स्म । परं स तु पार्श्वं परिवर्त्य सुषुप्त एव । तदन्वङ्गदसुग्रीवभरतशत्रुघ्नाः तं जागरयितुं भूयोभूयः प्रयतन्ते स्म ।
तदा निद्रानिमीलितनेत्र एव लक्ष्मणः प्राह – ‘‘अलम् ! निद्रां सेवमानं मां मा बाधिध्वम्’’ इति ।
हनूमान् पप्रच्छ - ‘‘कामं स्वपिहि, किन्तु प्राङ्नः प्रश्नस्योत्तरम् प्रयच्छ । अकस्मात् त्वया हसितं तत् किमर्थम् ?’’ इति ।
अर्धसुप्त एव सौमित्रिः प्रत्यभाषत – ‘‘शृणुत ! यदा किल आर्यो भ्रातृजाया च वनवासाय निर्गतौ, तदाहमपि तावनुप्रतस्थे । विपिने चाहर्निशं तयोः परिचर्यामकरवम् । यामिन्यां प्रसुप्तयोस्तयोः रक्षणार्थमहं धृतजागरोऽतिष्ठम् । एकदा निद्रादेवी मामुपगम्य ‘लक्ष्मण ! निद्रां याहि’ इति न्यगादीत् । तदाहं ताम् प्राञ्जलिः प्रार्थये – ‘अम्ब ! क्षमस्व माम् । वनवासावधौ ज्यायसोः रक्षणधुरा मयि वर्तते । अतः चतुर्दशवर्षाणि यावत् मदन्तिकं मा स्म गमः’ इति । सा च तथास्तु इत्युक्त्वा तिरोदधे । अद्य तु राज्याभिषेकसमये सा पुनः प्रत्यक्षीभूय ‘लक्ष्मण ! पूर्णास्ते चतुर्दशवत्सराः’ इति मां ज्ञापितवती । चिरकालात् पुनरायान्तीं तां वीक्ष्य मया हसितम्, ‘अम्ब ! एहि, स्वागतम्’ इति च मयोक्तम्’’ इति ।
इत्थं निगद्यैव लक्ष्मणः पुनर्जृम्भमाणः गाढनिद्रां प्रपेदे । तदाकर्ण्य बाष्पार्द्रनयनो रघुनन्दनः सस्नेहमवरजस्य मूर्धानमुपाजिघ्रत् ।