नैष्ठुर्यमूलं श्रेयः
प्रच्छन्नवेषः कश्चिन्नृपतिः स्वविषये पर्यटति स्म। पर्यटंस्तस्य दृक्पथमेको रजक आजगाम यं दशसंख्याधिका रासभाः श्रेणिबद्धा अन्वयुः। तद्विलोक्य विस्मितो भूपालस्तं पप्रच्छ - “अये, कीदृशी नु त्वयाऽमी गर्दभा विनीता, यदेते श्रेणिं न जहति कदाचन?”
स प्रत्यवादीत् - “न खल्वत्र विनयनस्य कश्चन प्रसङ्गः। यः कश्चिदेषां वीथिभङ्गमाचरेत्, तमहं भृशं दण्डेन ताडयेयम्। अत इमे दण्डत्रासादेव पङ्क्त्या चरन्ति। दण्डभयेन हि सर्वमपि साध्येत।”
तदा नृपः स्वमात्मानं प्रकाश्य तमपृच्छत् - “मदीये राष्ट्रे दुष्कर्माणि बाहुल्येन प्रचरन्ति। अपि शक्नोषि त्वं तेषां दमनं विधातुम्?” रजक उवाच - “किमिति न? यदि द्वित्राः पापकर्माणो निष्ठुरेण दण्डेन दम्येरन्, तर्हि वार्ता सा सर्वत्र प्रसरेत। तदनु स्वयमेव दुष्कृत्येषु ह्रासो जायेत।”
“यद्येवम्, तर्हि त्वामद्यैव धर्माधिकरणिकपदे नियोक्ष्यामि। दर्शय तावत् स्वं प्रावीण्यम्” इत्यभिधाय, महीपतिस्तं तस्मिन् पदे नियुज्य शासनपत्रं प्रसारयामास।
अपरेद्युः स रजको धर्मासनमध्यास्त। प्रथमं तावत् कस्यचित् चौर्याभियोगस्य विचार आरभत। रजकेनायं निर्णयः श्रावितो यत् - “विहितस्यास्यैनसो दण्डरूपेणास्य करौ छिद्येताम्” इति। चौरस्तु तत्रस्थं लेखकं नेत्रसंज्ञया किञ्चिदबोधयत्। अथ लेखकस्तं धर्माधिकरणिकमुपगम्य शनैः कर्णेऽवदत् - “आर्य! अयं नन्वस्मत्पक्षीयः। तस्मात्…”
धर्मासनस्थो रजकः स्थिरस्वरेण जगाद - “अस्य करौ छेत्तव्याविति मयादिष्टमेव खलु? स किं त्वया नाकर्णि?” “स्वामिन्! स्वजनोऽयमस्माकम्। यद्यस्य दण्डो लघूक्रियेत, तर्ह्ययं यथाविभवं दास्यति” इति स मन्दं व्याजहार।
तच्छ्रुत्वा धर्मासनासीनः स रजकस्तं रोषेण प्रेक्ष्य पुनरादिदेश - “चौरस्य करौ कृन्त्येताम्, अस्य च लेखकस्य जिह्वा छिद्यताम्” इति। एतेनैकेन धर्मनिर्णयेनैव राष्ट्रे दुष्कर्मणां महान् संक्षयो बभूव। प्रीतमानसो नृपतिस्तस्मै रजकाय पुरस्कारं प्रदाय तं सम्मानयामास।