MN104 sāmagrāmasūtram
Summary: In the wake of violent factional discord among the Nirgranthas following their leader’s death, the Buddha provides measures to safeguard the Buddhist Saṅgha against communal division. He identifies six psychological roots of disputes and details the seven legal procedures for settling ecclesiastical conflicts (adhikaraṇaśamatha), ensuring long-lasting harmony and structural integrity for the teaching.
मध्यमनिकाये उपरिपञ्चाशत्पाठे देवदहवर्गे सामग्रामसूत्रं चतुर्थम्
एवं मया श्रुतम् — एकस्मिन्समये भगवाञ्छाक्येषु विहरति स्म सामग्रामे। तेन खलु पुनः समयेन निर्ग्रन्थो ज्ञातिपुत्रः पावायामधुनाकालगतोऽभूत्। तस्य कालक्रियया भिन्ना निर्ग्रन्था द्वैधजाता भण्डनजाताः कलहजाता विवादापन्ना अन्योन्यं मुखशक्तिभिर्वितुदन्तो व्यहार्षुः — न त्वमिमं धर्मविनयमाजानास्यहमिमं धर्मविनयमाजानामि। किं त्वमिमं धर्मविनयमाज्ञास्यसि। मिथ्याप्रतिपन्नस्त्वमस्यहमस्मि सम्यक्प्रतिपन्नः। सहितं मेऽसहितं ते। पूर्ववचनीयं पश्चादवोचः पश्चाद्वचनीयं पूर्वमवोचः। अधिचीर्णं ते विपरावृत्तम्। आरोपितस्ते वादः। निगृहीतोऽसि चर वादप्रमोक्षाय निर्वेष्टय वा सचेत्प्रभवसीति। वध एव खलु मन्ये निर्ग्रन्थेषु ज्ञातिपुत्रीयेष्ववर्तत। येऽपि निर्ग्रन्थस्य ज्ञातिपुत्रस्य श्रावका गृहिणोऽवदातवसनास्तेऽपि निर्ग्रन्थेषु ज्ञातिपुत्रीयेषु निर्विण्णरूपा विरक्तरूपाः प्रत्यावृत्तरूपा अभूवन्यथा तद्दुराख्याते धर्मविनये दुष्प्रवेदितेऽनैर्याणिकेऽनुपशमसांवर्तनिकेऽसम्यक्सम्बुद्धप्रवेदिते भिन्नस्तूपेऽप्रतिशरणे।
अथ खलु चुन्दः श्रमणोद्देशः पावायां वर्षोषितो येन सामग्रामो येनायुष्मानानन्दस्तेनोपसमक्रमीत्। उपसङ्क्रम्यायुष्मन्तमानन्दमभिवाद्यैकान्तं न्यषदत्। एकान्तं निषण्णः खलु चुन्दः श्रमणोद्देश आयुष्मन्तमानन्दमेतदवोचत् — निर्ग्रन्थो भदन्त ज्ञातिपुत्रः पावायामधुनाकालगतः। तस्य कालक्रियया भिन्ना निर्ग्रन्था द्वैधजाताः (पूर्ववत्) भिन्नस्तूपेऽप्रतिशरण इति। एवमुक्ते आयुष्मानानन्दश्चुन्दं श्रमणोद्देशमेतदवोचत् — अस्ति खल्विदमायुष्मंश्चुन्द कथाप्राभृतं भगवतो दर्शनाय। आयावायुष्मंश्चुन्द येन भगवांस्तेनोपसङ्क्रमिष्यावः। उपसङ्क्रम्यैतमर्थं भगवत आरोचयिष्याव इति। एवं भदन्तेति खलु चुन्दः श्रमणोद्देश आयुष्मत आनन्दाय प्रत्यश्रौषीत्।
अथ खल्वायुष्मांश्चानन्दश्चुन्दश्च श्रमणोद्देशो येन भगवांस्तेनोपसमक्रमिष्टाम्। उपसङ्क्रम्य भगवन्तमभिवाद्यैकान्तं न्यषदताम्। एकान्तं निषण्णः खल्वायुष्मानानन्दो भगवन्तमेतदवोचत् — अयं भदन्त चुन्दः श्रमणोद्देश एवमाह — निर्ग्रन्थो भदन्त ज्ञातिपुत्रः पावायामधुनाकालगतः। तस्य कालक्रियया भिन्ना निर्ग्रन्था द्वैधजाताः (पूर्ववत्) भिन्नस्तूपेऽप्रतिशरण इति। तस्य मम भदन्तैवं भवति — मा ह्येव भगवतोऽत्ययेन सङ्घे विवाद उत्पादि। स स्याद्विवादो बहुजनाहिताय बहुजनासुखाय बहोर्जनस्यानर्थायाहिताय दुःखाय देवमनुष्याणामिति।
तत्किं मन्यस आनन्द ये वो मया धर्मा अभिज्ञाय देशितास्तद्यथा — चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रधानानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गान्यार्योऽष्टाङ्गो मार्गः — पश्यसि नु त्वमानन्दैषु धर्मेषु द्वावपि भिक्षू नानावादाविति। य इमे भदन्त धर्मा भगवताभिज्ञाय देशितास्तद्यथा — चत्वारि स्मृत्युपस्थानानि चत्वारि सम्यक्प्रधानानि चत्वार ऋद्धिपादाः पञ्चेन्द्रियाणि पञ्च बलानि सप्त बोध्यङ्गान्यार्योऽष्टाङ्गो मार्गः — नाहं पश्याम्येषु धर्मेषु द्वावपि भिक्षू नानावादौ। ये च खलु भदन्त पुद्गला भगवन्तं प्रतिश्रयमाणरूपा विहरन्ति तेऽपि भगवतोऽत्ययेन सङ्घे विवादं जनयेयुरध्याजीवे वाधिप्रातिमोक्षे वा। स स्याद्विवादो बहुजनाहिताय बहुजनासुखाय बहोर्जनस्यानर्थायाहिताय दुःखाय देवमनुष्याणामिति। अल्पमात्रकः स आनन्द विवादो यदिदमध्याजीवे वाधिप्रातिमोक्षे वा। मार्गे वा ह्यानन्द प्रतिपदि वा सङ्घे विवाद उत्पद्यमान उत्पद्येत स स्याद्विवादो बहुजनाहिताय बहुजनासुखाय बहोर्जनस्यानर्थायाहिताय दुःखाय देवमनुष्याणाम्।
षडिमान्यानन्द विवादमूलानि। कतमानि षट्। इहानन्द भिक्षुः क्रोधनो भवत्युपनाही। यः स आनन्द भिक्षुः क्रोधनो भवत्युपनाही स शास्तर्यप्यगौरवो विहरत्यप्रतिश्रवो धर्मेऽप्यगौरवो विहरत्यप्रतिश्रवः सङ्घेऽप्यगौरवो विहरत्यप्रतिश्रवः शिक्षाया अपि न परिपूरकारी भवति। यः स आनन्द भिक्षुः शास्तर्यगौरवो विहरत्यप्रतिश्रवो धर्मे (पूर्ववत्) सङ्घेऽगौरवो विहरत्यप्रतिश्रवः शिक्षाया न परिपूरकारी भवति स सङ्घे विवादं जनयति यः स विवादो भवति बहुजनाहिताय बहुजनासुखाय बहोर्जनस्यानर्थायाहिताय दुःखाय देवमनुष्याणाम्। एवंरूपं चेद्यूयमानन्द विवादमूलमध्यात्मं वा बहिर्धा वा समनुपश्येत तत्र यूयमानन्द तस्यैव पापकस्य विवादमूलस्य प्रहाणाय व्यायच्छेध्वम्। एवंरूपं चेद्यूयमानन्द विवादमूलमध्यात्मं वा बहिर्धा वा न समनुपश्येत तत्र यूयमानन्द तस्यैव पापकस्य विवादमूलस्यायत्यामनवस्रवाय प्रतिपद्येध्वम्। एवमेतस्य पापकस्य विवादमूलस्य प्रहाणं भवत्येवमेतस्य पापकस्य विवादमूलस्यायत्यामनवस्रवो भवति।
पुनश्चापरमानन्द भिक्षुर्मक्षी भवति प्रदासी (पूर्ववत्) ईर्ष्युर्भवति मत्सरी (पूर्ववत्) शठो भवति मायावी (पूर्ववत्) पापेच्छो भवति मिथ्यादृष्टिः (पूर्ववत्) सन्दृष्टिपरमर्शी भवत्याधानग्राही दुष्प्रतिनिःसर्गी। यः स आनन्द भिक्षुः सन्दृष्टिपरमर्शी भवत्याधानग्राही दुष्प्रतिनिःसर्गी स शास्तर्यप्यगौरवो विहरत्यप्रतिश्रवो धर्मेऽप्यगौरवो विहरत्यप्रतिश्रवः सङ्घेऽप्यगौरवो विहरत्यप्रतिश्रवः शिक्षाया अपि न परिपूरकारी भवति। यः स आनन्द भिक्षुः शास्तर्यगौरवो विहरत्यप्रतिश्रवो धर्मे (पूर्ववत्) सङ्घे (पूर्ववत्) शिक्षाया न परिपूरकारी भवति स सङ्घे विवादं जनयति यः स विवादो भवति बहुजनाहिताय बहुजनासुखाय बहोर्जनस्यानर्थायाहिताय दुःखाय देवमनुष्याणाम्। एवंरूपं चेद्यूयमानन्द विवादमूलमध्यात्मं वा बहिर्धा वा समनुपश्येत तत्र यूयमानन्द तस्यैव पापकस्य विवादमूलस्य प्रहाणाय व्यायच्छेध्वम्। एवंरूपं चेद्यूयमानन्द विवादमूलमध्यात्मं वा बहिर्धा वा न समनुपश्येत तत्र यूयमानन्द तस्यैव पापकस्य विवादमूलस्यायत्यामनवस्रवाय प्रतिपद्येध्वम्। एवमेतस्य पापकस्य विवादमूलस्य प्रहाणं भवत्येवमेतस्य पापकस्य विवादमूलस्यायत्यामनवस्रवो भवति। इमानि खल्वानन्द षड्विवादमूलानि।
चत्वारीमान्यानन्दाधिकरणानि। कतमानि चत्वारि। विवादाधिकरणमनुवादाधिकरणमापत्त्यधिकरणं कृत्याधिकरणम् — इमानि खल्वानन्द चत्वार्यधिकरणानि। सप्त खलु पुनरिम आनन्दाधिकरणशमथाः — उत्पन्नोत्पन्नानामधिकरणानां शमथाय व्युपशमाय सम्मुखविनयो दातव्यः स्मृतिविनयो दातव्योऽमूढविनयो दातव्यः प्रतिज्ञया कारयितव्यं यद्भूयसिका तत्पापीयसिका तृणावस्तारकः।
कथं चानन्द सम्मुखविनयो भवति। इहानन्द भिक्षवो विवदन्ते धर्म इति वाधर्म इति वा विनय इति वाविनय इति वा। तैरानन्द भिक्षुभिः सर्वैरेव समग्रैः सन्निपतितव्यम्। सन्निपत्य धर्मनेत्री समनुमार्जितव्या। धर्मनेत्रीं समनुमृज्य यथा तत्र समेति तथा तदधिकरणं व्युपशमयितव्यम्। एवं खल्वानन्द सम्मुखविनयो भवत्येवं च पुनरिहैकेषामधिकरणानां व्युपशमो भवति यदिदं सम्मुखविनयेन।
कथं चानन्द यद्भूयसिका भवति। ते चेदानन्द भिक्षवो न शक्नुवन्ति तदधिकरणं तस्मिन्नावसे व्युपशमयितुं तैरानन्द भिक्षुभिर्यस्मिन्नावसे बहुतरा भिक्षवः स आवासो गन्तव्यः। तत्र सर्वैरेव समग्रैः सन्निपतितव्यम्। सन्निपत्य धर्मनेत्री समनुमार्जितव्या। धर्मनेत्रीं समनुमृज्य यथा तत्र समेति तथा तदधिकरणं व्युपशमयितव्यम्। एवं खल्वानन्द यद्भूयसिका भवत्येवं च पुनरिहैकेषामधिकरणानां व्युपशमो भवति यदिदं यद्भूयसिकया।
कथं चानन्द स्मृतिविनयो भवति। इहानन्द भिक्षवो भिक्षुमेवंरूपया गुरुकयापत्त्या चोदयन्ति पाराजिकेन वा पाराजिकसामन्तेन वा — स्मरत्यायुष्मानेवंरूपां गुरुकामापत्तिमापन्नः पाराजिकां वा पाराजिकसामन्तां वेति। स एवमाह — न खल्वहमायुष्मन्तः स्मराम्येवंरूपां गुरुकामापत्तिमापन्नः पाराजिकां वा पाराजिकसामन्तां वेति। तस्य खल्वानन्द भिक्षोः स्मृतिविनयो दातव्यः। एवं खल्वानन्द स्मृतिविनयो भवत्येवं च पुनरिहैकेषामधिकरणानां व्युपशमो भवति यदिदं स्मृतिविनयेन।
कथं चानन्दामूढविनयो भवति। इहानन्द भिक्षवो भिक्षुमेवंरूपया गुरुकयापत्त्या चोदयन्ति पाराजिकेन वा पाराजिकसामन्तेन वा — स्मरत्यायुष्मानेवंरूपां गुरुकामापत्तिमापन्नः पाराजिकां वा पाराजिकसामन्तां वेति। स एवमाह — न खल्वहमायुष्मन्तः स्मराम्येवंरूपां गुरुकामापत्तिमापन्नः पाराजिकां वा पाराजिकसामन्तां वेति। तमेनं स निर्वेष्टयन्तमतिवेष्टयति — अङ्गायुष्मन्साध्वेव जानीहि यदि स्मरस्येवंरूपां गुरुकामापत्तिमापन्नः पाराजिकां वा पाराजिकसामन्तां वेति। स एवमाह — अहं खल्वायुष्मन्त उन्मादं प्रापं चेतसो विपर्यासम्। तेन मयोन्मत्तकेन बह्वश्रामणकमध्याचीर्णं भाषितपरिक्रान्तम्। नाहं तत्स्मरामि। मूढेन मयैतत्कृतमिति। तस्य खल्वानन्द भिक्षोरमूढविनयो दातव्यः। एवं खल्वानन्दामूढविनयो भवत्येवं च पुनरिहैकेषामधिकरणानां व्युपशमो भवति यदिदममूढविनयेन।
कथं चानन्द प्रतिज्ञातकरणं भवति। इहानन्द भिक्षुश्चोदितो वाऽचोदितो वाऽपत्तिं स्मरति विवृणोत्युत्तानीकरोति। तेनानन्द भिक्षुणा वृद्धतरं भिक्षुमुपसङ्क्रम्यैकांसं चीवरं कृत्वा पादौ वन्दित्वोत्कुटुकं निषद्याञ्जलिं प्रगृह्यैवं स वचनीयः — अहं भदन्तेत्थंनाम्नीमापत्तिमापन्नस्तां प्रतिदेशयामीति। स एवमाह — पश्यसीति। आम् पश्यामीति। आयत्यां संवरयेरिति। संवरिष्यामीति। एवं खल्वानन्द प्रतिज्ञातकरणं भवत्येवं च पुनरिहैकेषामधिकरणानां व्युपशमो भवति यदिदं प्रतिज्ञातकरणेन।
कथं चानन्द तत्पापीयसिका भवति। इहानन्द भिक्षुर्भिक्षुमेवंरूपया गुरुकयापत्त्या चोदयति पाराजिकेन वा पाराजिकसामन्तेन वा — स्मरत्यायुष्मानेवंरूपां गुरुकामापत्तिमापन्नः पाराजिकां वा पाराजिकसामन्तां वेति। स एवमाह — न खल्वहमायुष्मन्स्मराम्येवंरूपां गुरुकामापत्तिमापन्नः पाराजिकां वा पाराजिकसामन्तां वेति। तमेनं स निर्वेष्टयन्तमतिवेष्टयति — अङ्गायुष्मन्साध्वेव जानीहि यदि स्मरस्येवंरूपां गुरुकामापत्तिमापन्नः पाराजिकां वा पाराजिकसामन्तां वेति। स एवमाह — न खल्वहमायुष्मन्स्मराम्येवंरूपां गुरुकामापत्तिमापन्नः पाराजिकां वा पाराजिकसामन्तां वापि तु खल्वहमायुष्मन्स्मराम्येवंरूणामल्पमात्रिकामापत्तिमापन्न इति। तमेनं स निर्वेष्टयन्तमतिवेष्टयति — अङ्गायुष्मन्साध्वेव जानीहि यदि स्मरस्येवंरूपां गुरुकामापत्तिमापन्नः पाराजिकां वा पाराजिकसामन्तां वेति। स एवमाह — इमां हि नामाहमायुष्मन्नल्पमात्रिकामापत्तिमापद्यापृष्टः प्रतिज्ञास्ये। किं पुनरहमेवंरूपां गुरुकामापत्तिमापद्य पाराजिकां वा पाराजिकसामन्तां वा पृष्टो न प्रतिज्ञास्य इति। स एवमाह — इमां हि नाम त्वमायुष्मन्नल्पमात्रिकामापत्तिमापद्यापृष्टो न प्रतिज्ञास्यसे किं पुनस्त्वमेवंरूपां गुरुकामापत्तिमापद्य पाराजिकां वा पाराजिकसामन्तां वा पृष्टः प्रतिज्ञास्यसे। अङ्गायुष्मन्साध्वेव जानीहि यदि स्मरस्येवंरूपां गुरुकामापत्तिमापन्नः पाराजिकां वा पाराजिकसामन्तां वेति। स एवमाह — स्मरामि खल्वहमायुष्मन्नेवंरूपां गुरुकामापत्तिमापन्नः पाराजिकां वा पाराजिकसामन्तां वा। द्रवान्मयैतदुक्तं रवान्मयैतदुक्तम् — नाहं तत्स्मराम्येवंरूपां गुरुकामापत्तिमापन्नः पाराजिकां वा पाराजिकसामन्तां वेति। एवं खल्वानन्द तत्पापीयसिका भवत्येवं च पुनरिहैकेषामधिकरणानां व्युपशमो भवति यदिदं तत्पापीयसिकाया।
कथं चानन्द तृणावस्तारको भवति। इहानन्द भिक्षूणां भण्डनजातानां कलहजातानां विवादापन्नानां विहरतां बह्वश्रामणकमध्याचीर्णं भवति भाषितपरिक्रान्तम्। तैरानन्द भिक्षुभिः सर्वैरेव समग्रैः सन्निपतितव्यम्। सन्निपत्यैकतःपक्षिकाणां भिक्षूणां व्यक्तेन भिक्षुणोत्थायासनादेकांसं चीवरं कृत्वाञ्जलिं प्रणमय्य सङ्घो ज्ञापयितव्यः —
शृणोतु मे भदन्तः सङ्घः। इदमस्माकं भण्डनजातानां कलहजातानां विवादापन्नानां विहरतां बह्वश्रामणकमध्याचीर्णं भाषितपरिक्रान्तम्। यदि सङ्घस्य प्राप्तकालमहं या चैवैषामायुष्मतामापत्तिर्या चात्मन आपत्तिरेषां चैवायुष्मतामर्थायात्मनश्चार्थाय सङ्घमध्ये तृणावस्तारकेण देशयेयं स्थापयित्वा स्थूलवद्यं स्थापयित्वा गृहिप्रतिसंयुक्तमिति।
अथापरेषामेकतःपक्षिकाणां भिक्षूणां व्यक्तेन भिक्षुणोत्थायासनादेकांसं चीवरं कृत्वाञ्जलिं प्रणमय्य सङ्घो ज्ञापयितव्यः —
शृणोतु मे भदन्तः सङ्घः। इदमस्माकं भण्डनजातानां कलहजातानां विवादापन्नानां विहरतां बह्वश्रामणकमध्याचीर्णं भाषितपरिक्रान्तम्। यदि सङ्घस्य प्राप्तकालमहं या चैवैषामायुष्मतामापत्तिर्या चात्मन आपत्तिरेषां चैवायुष्मतामर्थायात्मनश्चार्थाय सङ्घमध्ये तृणावस्तारकेण देशयेयं स्थापयित्वा स्थूलवद्यं स्थापयित्वा गृहिप्रतिसंयुक्तमिति।
एवं खल्वानन्द तृणावस्तारको भवत्येवं च पुनरिहैकेषामधिकरणानां व्युपशमो भवति यदिदं तृणावस्तारकेण।
षडिम आनन्द धर्माः सारणीयाः प्रियकरणा गुरुकरणाः सङ्ग्रहायाविवादाय सामग्र्या एकीभावाय संवर्तन्ते। कतमे षट्। इहानन्द भिक्षोर्मैत्रं कायकर्म प्रत्युपस्थितं भवति सब्रह्मचारिष्वाविश्चैव रहश्च। अयमपि धर्मः सारणीयः प्रियकरणो गुरुकरणः सङ्ग्रहायाविवादाय सामग्र्या एकीभावाय संवर्तते।
पुनश्चापरमानन्द भिक्षोर्मैत्रं वाक्कर्म प्रत्युपस्थितं भवति सब्रह्मचारिष्वाविश्चैव रहश्च। अयमपि धर्मः सारणीयः प्रियकरणो गुरुकरणः सङ्ग्रहायाविवादाय सामग्र्या एकीभावाय संवर्तते।
पुनश्चापरमानन्द भिक्षोर्मैत्रं मनःकर्म प्रत्युपस्थितं भवति सब्रह्मचारिष्वाविश्चैव रहश्च। अयमपि धर्मः सारणीयः प्रियकरणो गुरुकरणः सङ्ग्रहायाविवादाय सामग्र्या एकीभावाय संवर्तते।
पुनश्चापरमानन्द भिक्षुर्ये ते लाभा धार्मिका धर्मलब्धा अन्तशः पात्रपर्यापन्नमात्रमपि तथारूपैर्लाभैरप्रतिविभक्तभोगी भवति शीलवद्भिः सब्रह्मचारिभिः साधारणभोगी। अयमपि धर्मः सारणीयः प्रियकरणो गुरुकरणः सङ्ग्रहायाविवादाय सामग्र्या एकीभावाय संवर्तते।
पुनश्चापरमानन्द भिक्षुर्यानि तानि शीलान्यखण्डान्यच्छिद्राण्यशबलान्यकल्माषाणि भुजिष्याणि विज्ञप्रशस्तान्यपरामृष्टानि समाधिसंवर्तनीयानि तथारूपेषु शीलेषु शीलसामान्यगतो विहरति सब्रह्मचारिभिराविश्चैव रहश्च। अयमपि धर्मः सारणीयः प्रियकरणो गुरुकरणः सङ्ग्रहायाविवादाय सामग्र्या एकीभावाय संवर्तते।
पुनश्चापरमानन्द भिक्षुर्येयं दृष्टिरार्या नैर्याणिकी निर्याति तत्करस्य सम्यग्दुःखक्षयाय तथारूपया दृष्ट्या दृष्टिसामान्यगतो विहरति सब्रह्मचारिभिराविश्चैव रहश्च। अयमपि धर्मः सारणीयः प्रियकरणो गुरुकरणः सङ्ग्रहायाविवादाय सामग्र्या एकीभावाय संवर्तते। इमे खल्वानन्द षट्सारणीया धर्माः प्रियकरणा गुरुकरणाः सङ्ग्रहायाविवादाय सामग्र्या एकीभावाय संवर्तन्ते।
इमांश्चेद्यूयमानन्द षट्सारणीयान्धर्मान्समादाय वर्तेध्वं पश्यथ नु यूयमानन्द तं वचनपथमणुं वा स्थूलं वा यं यूयं नाधिवासयेध्वमिति। नो हीदं भदन्त। तस्मादिहानन्देमान्षट्सारणीयान्धर्मान्समादाय वर्तध्वम्। तद्वो भविष्यति दीर्घरात्रं हिताय सुखायेति।
इदमवोचद्भगवान्। आत्तमना आयुष्मानानन्दो भगवतो भाषितमभ्यनन्दीदिति।
सामग्रामसूत्रं निष्ठितं चतुर्थम्॥
—
madhyamanikāye uparipañcāśatpāṭhe devadahavarge sāmagrāmasūtraṃ caturtham
evaṃ mayā śrutam — ekasminsamaye bhagavāñchākyeṣu viharati sma sāmagrāme. tena khalu punaḥ samayena nirgrantho jñātiputraḥ pāvāyāmadhunākālagato'bhūt. tasya kālakriyayā bhinnā nirgranthā dvaidhajātā bhaṇḍanajātāḥ kalahajātā vivādāpannā anyonyaṃ mukhaśaktibhirvitudanto vyahārṣuḥ — na tvamimaṃ dharmavinayamājānāsyahamimaṃ dharmavinayamājānāmi. kiṃ tvamimaṃ dharmavinayamājñāsyasi. mithyāpratipannastvamasyahamasmi samyakpratipannaḥ. sahitaṃ me'sahitaṃ te. pūrvavacanīyaṃ paścādavocaḥ paścādvacanīyaṃ pūrvamavocaḥ. adhicīrṇaṃ te viparāvṛttam. āropitaste vādaḥ. nigṛhīto'si cara vādapramokṣāya nirveṣṭaya vā sacetprabhavasīti. vadha eva khalu manye nirgrantheṣu jñātiputrīyeṣvavartata. ye'pi nirgranthasya jñātiputrasya śrāvakā gṛhiṇo'vadātavasanāste'pi nirgrantheṣu jñātiputrīyeṣu nirviṇṇarūpā viraktarūpāḥ pratyāvṛttarūpā abhūvanyathā taddurākhyāte dharmavinaye duṣpravedite'nairyāṇike'nupaśamasāṃvartanike'samyaksambuddhapravedite bhinnastūpe'pratiśaraṇe.
atha khalu cundaḥ śramaṇoddeśaḥ pāvāyāṃ varṣoṣito yena sāmagrāmo yenāyuṣmānānandastenopasamakramīt. upasaṅkramyāyuṣmantamānandamabhivādyaikāntaṃ nyaṣadat. ekāntaṃ niṣaṇṇaḥ khalu cundaḥ śramaṇoddeśa āyuṣmantamānandametadavocat — nirgrantho bhadanta jñātiputraḥ pāvāyāmadhunākālagataḥ. tasya kālakriyayā bhinnā nirgranthā dvaidhajātāḥ (pūrvavat) bhinnastūpe'pratiśaraṇa iti. evamukte āyuṣmānānandaścundaṃ śramaṇoddeśametadavocat — asti khalvidamāyuṣmaṃścunda kathāprābhṛtaṃ bhagavato darśanāya. āyāvāyuṣmaṃścunda yena bhagavāṃstenopasaṅkramiṣyāvaḥ. upasaṅkramyaitamarthaṃ bhagavata ārocayiṣyāva iti. evaṃ bhadanteti khalu cundaḥ śramaṇoddeśa āyuṣmata ānandāya pratyaśrauṣīt.
atha khalvāyuṣmāṃścānandaścundaśca śramaṇoddeśo yena bhagavāṃstenopasamakramiṣṭām. upasaṅkramya bhagavantamabhivādyaikāntaṃ nyaṣadatām. ekāntaṃ niṣaṇṇaḥ khalvāyuṣmānānando bhagavantametadavocat — ayaṃ bhadanta cundaḥ śramaṇoddeśa evamāha — nirgrantho bhadanta jñātiputraḥ pāvāyāmadhunākālagataḥ. tasya kālakriyayā bhinnā nirgranthā dvaidhajātāḥ (pūrvavat) bhinnastūpe'pratiśaraṇa iti. tasya mama bhadantaivaṃ bhavati — mā hyeva bhagavato'tyayena saṅghe vivāda utpādi. sa syādvivādo bahujanāhitāya bahujanāsukhāya bahorjanasyānarthāyāhitāya duḥkhāya devamanuṣyāṇāmiti.
tatkiṃ manyasa ānanda ye vo mayā dharmā abhijñāya deśitāstadyathā — catvāri smṛtyupasthānāni catvāri samyakpradhānāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgānyāryo'ṣṭāṅgo mārgaḥ — paśyasi nu tvamānandaiṣu dharmeṣu dvāvapi bhikṣū nānāvādāviti. ya ime bhadanta dharmā bhagavatābhijñāya deśitāstadyathā — catvāri smṛtyupasthānāni catvāri samyakpradhānāni catvāra ṛddhipādāḥ pañcendriyāṇi pañca balāni sapta bodhyaṅgānyāryo'ṣṭāṅgo mārgaḥ — nāhaṃ paśyāmyeṣu dharmeṣu dvāvapi bhikṣū nānāvādau. ye ca khalu bhadanta pudgalā bhagavantaṃ pratiśrayamāṇarūpā viharanti te'pi bhagavato'tyayena saṅghe vivādaṃ janayeyuradhyājīve vādhiprātimokṣe vā. sa syādvivādo bahujanāhitāya bahujanāsukhāya bahorjanasyānarthāyāhitāya duḥkhāya devamanuṣyāṇāmiti. alpamātrakaḥ sa ānanda vivādo yadidamadhyājīve vādhiprātimokṣe vā. mārge vā hyānanda pratipadi vā saṅghe vivāda utpadyamāna utpadyeta sa syādvivādo bahujanāhitāya bahujanāsukhāya bahorjanasyānarthāyāhitāya duḥkhāya devamanuṣyāṇām.
ṣaḍimānyānanda vivādamūlāni. katamāni ṣaṭ. ihānanda bhikṣuḥ krodhano bhavatyupanāhī. yaḥ sa ānanda bhikṣuḥ krodhano bhavatyupanāhī sa śāstaryapyagauravo viharatyapratiśravo dharme'pyagauravo viharatyapratiśravaḥ saṅghe'pyagauravo viharatyapratiśravaḥ śikṣāyā api na paripūrakārī bhavati. yaḥ sa ānanda bhikṣuḥ śāstaryagauravo viharatyapratiśravo dharme (pūrvavat) saṅghe'gauravo viharatyapratiśravaḥ śikṣāyā na paripūrakārī bhavati sa saṅghe vivādaṃ janayati yaḥ sa vivādo bhavati bahujanāhitāya bahujanāsukhāya bahorjanasyānarthāyāhitāya duḥkhāya devamanuṣyāṇām. evaṃrūpaṃ cedyūyamānanda vivādamūlamadhyātmaṃ vā bahirdhā vā samanupaśyeta tatra yūyamānanda tasyaiva pāpakasya vivādamūlasya prahāṇāya vyāyacchedhvam. evaṃrūpaṃ cedyūyamānanda vivādamūlamadhyātmaṃ vā bahirdhā vā na samanupaśyeta tatra yūyamānanda tasyaiva pāpakasya vivādamūlasyāyatyāmanavasravāya pratipadyedhvam. evametasya pāpakasya vivādamūlasya prahāṇaṃ bhavatyevametasya pāpakasya vivādamūlasyāyatyāmanavasravo bhavati.
punaścāparamānanda bhikṣurmakṣī bhavati pradāsī (pūrvavat) īrṣyurbhavati matsarī (pūrvavat) śaṭho bhavati māyāvī (pūrvavat) pāpeccho bhavati mithyādṛṣṭiḥ (pūrvavat) sandṛṣṭiparamarśī bhavatyādhānagrāhī duṣpratiniḥsargī. yaḥ sa ānanda bhikṣuḥ sandṛṣṭiparamarśī bhavatyādhānagrāhī duṣpratiniḥsargī sa śāstaryapyagauravo viharatyapratiśravo dharme'pyagauravo viharatyapratiśravaḥ saṅghe'pyagauravo viharatyapratiśravaḥ śikṣāyā api na paripūrakārī bhavati. yaḥ sa ānanda bhikṣuḥ śāstaryagauravo viharatyapratiśravo dharme (pūrvavat) saṅghe (pūrvavat) śikṣāyā na paripūrakārī bhavati sa saṅghe vivādaṃ janayati yaḥ sa vivādo bhavati bahujanāhitāya bahujanāsukhāya bahorjanasyānarthāyāhitāya duḥkhāya devamanuṣyāṇām. evaṃrūpaṃ cedyūyamānanda vivādamūlamadhyātmaṃ vā bahirdhā vā samanupaśyeta tatra yūyamānanda tasyaiva pāpakasya vivādamūlasya prahāṇāya vyāyacchedhvam. evaṃrūpaṃ cedyūyamānanda vivādamūlamadhyātmaṃ vā bahirdhā vā na samanupaśyeta tatra yūyamānanda tasyaiva pāpakasya vivādamūlasyāyatyāmanavasravāya pratipadyedhvam. evametasya pāpakasya vivādamūlasya prahāṇaṃ bhavatyevametasya pāpakasya vivādamūlasyāyatyāmanavasravo bhavati. imāni khalvānanda ṣaḍvivādamūlāni.
catvārīmānyānandādhikaraṇāni. katamāni catvāri. vivādādhikaraṇamanuvādādhikaraṇamāpattyadhikaraṇaṃ kṛtyādhikaraṇam — imāni khalvānanda catvāryadhikaraṇāni. sapta khalu punarima ānandādhikaraṇaśamathāḥ — utpannotpannānāmadhikaraṇānāṃ śamathāya vyupaśamāya sammukhavinayo dātavyaḥ smṛtivinayo dātavyo'mūḍhavinayo dātavyaḥ pratijñayā kārayitavyaṃ yadbhūyasikā tatpāpīyasikā tṛṇāvastārakaḥ.
kathaṃ cānanda sammukhavinayo bhavati. ihānanda bhikṣavo vivadante dharma iti vādharma iti vā vinaya iti vāvinaya iti vā. tairānanda bhikṣubhiḥ sarvaireva samagraiḥ sannipatitavyam. sannipatya dharmanetrī samanumārjitavyā. dharmanetrīṃ samanumṛjya yathā tatra sameti tathā tadadhikaraṇaṃ vyupaśamayitavyam. evaṃ khalvānanda sammukhavinayo bhavatyevaṃ ca punarihaikeṣāmadhikaraṇānāṃ vyupaśamo bhavati yadidaṃ sammukhavinayena.
kathaṃ cānanda yadbhūyasikā bhavati. te cedānanda bhikṣavo na śaknuvanti tadadhikaraṇaṃ tasminnāvase vyupaśamayituṃ tairānanda bhikṣubhiryasminnāvase bahutarā bhikṣavaḥ sa āvāso gantavyaḥ. tatra sarvaireva samagraiḥ sannipatitavyam. sannipatya dharmanetrī samanumārjitavyā. dharmanetrīṃ samanumṛjya yathā tatra sameti tathā tadadhikaraṇaṃ vyupaśamayitavyam. evaṃ khalvānanda yadbhūyasikā bhavatyevaṃ ca punarihaikeṣāmadhikaraṇānāṃ vyupaśamo bhavati yadidaṃ yadbhūyasikayā.
kathaṃ cānanda smṛtivinayo bhavati. ihānanda bhikṣavo bhikṣumevaṃrūpayā gurukayāpattyā codayanti pārājikena vā pārājikasāmantena vā — smaratyāyuṣmānevaṃrūpāṃ gurukāmāpattimāpannaḥ pārājikāṃ vā pārājikasāmantāṃ veti. sa evamāha — na khalvahamāyuṣmantaḥ smarāmyevaṃrūpāṃ gurukāmāpattimāpannaḥ pārājikāṃ vā pārājikasāmantāṃ veti. tasya khalvānanda bhikṣoḥ smṛtivinayo dātavyaḥ. evaṃ khalvānanda smṛtivinayo bhavatyevaṃ ca punarihaikeṣāmadhikaraṇānāṃ vyupaśamo bhavati yadidaṃ smṛtivinayena.
kathaṃ cānandāmūḍhavinayo bhavati. ihānanda bhikṣavo bhikṣumevaṃrūpayā gurukayāpattyā codayanti pārājikena vā pārājikasāmantena vā — smaratyāyuṣmānevaṃrūpāṃ gurukāmāpattimāpannaḥ pārājikāṃ vā pārājikasāmantāṃ veti. sa evamāha — na khalvahamāyuṣmantaḥ smarāmyevaṃrūpāṃ gurukāmāpattimāpannaḥ pārājikāṃ vā pārājikasāmantāṃ veti. tamenaṃ sa nirveṣṭayantamativeṣṭayati — aṅgāyuṣmansādhveva jānīhi yadi smarasyevaṃrūpāṃ gurukāmāpattimāpannaḥ pārājikāṃ vā pārājikasāmantāṃ veti. sa evamāha — ahaṃ khalvāyuṣmanta unmādaṃ prāpaṃ cetaso viparyāsam. tena mayonmattakena bahvaśrāmaṇakamadhyācīrṇaṃ bhāṣitaparikrāntam. nāhaṃ tatsmarāmi. mūḍhena mayaitatkṛtamiti. tasya khalvānanda bhikṣoramūḍhavinayo dātavyaḥ. evaṃ khalvānandāmūḍhavinayo bhavatyevaṃ ca punarihaikeṣāmadhikaraṇānāṃ vyupaśamo bhavati yadidamamūḍhavinayena.
kathaṃ cānanda pratijñātakaraṇaṃ bhavati. ihānanda bhikṣuścodito vā'codito vā'pattiṃ smarati vivṛṇotyuttānīkaroti. tenānanda bhikṣuṇā vṛddhataraṃ bhikṣumupasaṅkramyaikāṃsaṃ cīvaraṃ kṛtvā pādau vanditvotkuṭukaṃ niṣadyāñjaliṃ pragṛhyaivaṃ sa vacanīyaḥ — ahaṃ bhadantetthaṃnāmnīmāpattimāpannastāṃ pratideśayāmīti. sa evamāha — paśyasīti. ām paśyāmīti. āyatyāṃ saṃvarayeriti. saṃvariṣyāmīti. evaṃ khalvānanda pratijñātakaraṇaṃ bhavatyevaṃ ca punarihaikeṣāmadhikaraṇānāṃ vyupaśamo bhavati yadidaṃ pratijñātakaraṇena.
kathaṃ cānanda tatpāpīyasikā bhavati. ihānanda bhikṣurbhikṣumevaṃrūpayā gurukayāpattyā codayati pārājikena vā pārājikasāmantena vā — smaratyāyuṣmānevaṃrūpāṃ gurukāmāpattimāpannaḥ pārājikāṃ vā pārājikasāmantāṃ veti. sa evamāha — na khalvahamāyuṣmansmarāmyevaṃrūpāṃ gurukāmāpattimāpannaḥ pārājikāṃ vā pārājikasāmantāṃ veti. tamenaṃ sa nirveṣṭayantamativeṣṭayati — aṅgāyuṣmansādhveva jānīhi yadi smarasyevaṃrūpāṃ gurukāmāpattimāpannaḥ pārājikāṃ vā pārājikasāmantāṃ veti. sa evamāha — na khalvahamāyuṣmansmarāmyevaṃrūpāṃ gurukāmāpattimāpannaḥ pārājikāṃ vā pārājikasāmantāṃ vāpi tu khalvahamāyuṣmansmarāmyevaṃrūṇāmalpamātrikāmāpattimāpanna iti. tamenaṃ sa nirveṣṭayantamativeṣṭayati — aṅgāyuṣmansādhveva jānīhi yadi smarasyevaṃrūpāṃ gurukāmāpattimāpannaḥ pārājikāṃ vā pārājikasāmantāṃ veti. sa evamāha — imāṃ hi nāmāhamāyuṣmannalpamātrikāmāpattimāpadyāpṛṣṭaḥ pratijñāsye. kiṃ punarahamevaṃrūpāṃ gurukāmāpattimāpadya pārājikāṃ vā pārājikasāmantāṃ vā pṛṣṭo na pratijñāsya iti. sa evamāha — imāṃ hi nāma tvamāyuṣmannalpamātrikāmāpattimāpadyāpṛṣṭo na pratijñāsyase kiṃ punastvamevaṃrūpāṃ gurukāmāpattimāpadya pārājikāṃ vā pārājikasāmantāṃ vā pṛṣṭaḥ pratijñāsyase. aṅgāyuṣmansādhveva jānīhi yadi smarasyevaṃrūpāṃ gurukāmāpattimāpannaḥ pārājikāṃ vā pārājikasāmantāṃ veti. sa evamāha — smarāmi khalvahamāyuṣmannevaṃrūpāṃ gurukāmāpattimāpannaḥ pārājikāṃ vā pārājikasāmantāṃ vā. dravānmayaitaduktaṃ ravānmayaitaduktam — nāhaṃ tatsmarāmyevaṃrūpāṃ gurukāmāpattimāpannaḥ pārājikāṃ vā pārājikasāmantāṃ veti. evaṃ khalvānanda tatpāpīyasikā bhavatyevaṃ ca punarihaikeṣāmadhikaraṇānāṃ vyupaśamo bhavati yadidaṃ tatpāpīyasikāyā.
kathaṃ cānanda tṛṇāvastārako bhavati. ihānanda bhikṣūṇāṃ bhaṇḍanajātānāṃ kalahajātānāṃ vivādāpannānāṃ viharatāṃ bahvaśrāmaṇakamadhyācīrṇaṃ bhavati bhāṣitaparikrāntam. tairānanda bhikṣubhiḥ sarvaireva samagraiḥ sannipatitavyam. sannipatyaikataḥpakṣikāṇāṃ bhikṣūṇāṃ vyaktena bhikṣuṇotthāyāsanādekāṃsaṃ cīvaraṃ kṛtvāñjaliṃ praṇamayya saṅgho jñāpayitavyaḥ —
śṛṇotu me bhadantaḥ saṅghaḥ. idamasmākaṃ bhaṇḍanajātānāṃ kalahajātānāṃ vivādāpannānāṃ viharatāṃ bahvaśrāmaṇakamadhyācīrṇaṃ bhāṣitaparikrāntam. yadi saṅghasya prāptakālamahaṃ yā caivaiṣāmāyuṣmatāmāpattiryā cātmana āpattireṣāṃ caivāyuṣmatāmarthāyātmanaścārthāya saṅghamadhye tṛṇāvastārakeṇa deśayeyaṃ sthāpayitvā sthūlavadyaṃ sthāpayitvā gṛhipratisaṃyuktamiti.
athāpareṣāmekataḥpakṣikāṇāṃ bhikṣūṇāṃ vyaktena bhikṣuṇotthāyāsanādekāṃsaṃ cīvaraṃ kṛtvāñjaliṃ praṇamayya saṅgho jñāpayitavyaḥ —
śṛṇotu me bhadantaḥ saṅghaḥ. idamasmākaṃ bhaṇḍanajātānāṃ kalahajātānāṃ vivādāpannānāṃ viharatāṃ bahvaśrāmaṇakamadhyācīrṇaṃ bhāṣitaparikrāntam. yadi saṅghasya prāptakālamahaṃ yā caivaiṣāmāyuṣmatāmāpattiryā cātmana āpattireṣāṃ caivāyuṣmatāmarthāyātmanaścārthāya saṅghamadhye tṛṇāvastārakeṇa deśayeyaṃ sthāpayitvā sthūlavadyaṃ sthāpayitvā gṛhipratisaṃyuktamiti.
evaṃ khalvānanda tṛṇāvastārako bhavatyevaṃ ca punarihaikeṣāmadhikaraṇānāṃ vyupaśamo bhavati yadidaṃ tṛṇāvastārakeṇa.
ṣaḍima ānanda dharmāḥ sāraṇīyāḥ priyakaraṇā gurukaraṇāḥ saṅgrahāyāvivādāya sāmagryā ekībhāvāya saṃvartante. katame ṣaṭ. ihānanda bhikṣormaitraṃ kāyakarma pratyupasthitaṃ bhavati sabrahmacāriṣvāviścaiva rahaśca. ayamapi dharmaḥ sāraṇīyaḥ priyakaraṇo gurukaraṇaḥ saṅgrahāyāvivādāya sāmagryā ekībhāvāya saṃvartate.
punaścāparamānanda bhikṣormaitraṃ vākkarma pratyupasthitaṃ bhavati sabrahmacāriṣvāviścaiva rahaśca. ayamapi dharmaḥ sāraṇīyaḥ priyakaraṇo gurukaraṇaḥ saṅgrahāyāvivādāya sāmagryā ekībhāvāya saṃvartate.
punaścāparamānanda bhikṣormaitraṃ manaḥkarma pratyupasthitaṃ bhavati sabrahmacāriṣvāviścaiva rahaśca. ayamapi dharmaḥ sāraṇīyaḥ priyakaraṇo gurukaraṇaḥ saṅgrahāyāvivādāya sāmagryā ekībhāvāya saṃvartate.
punaścāparamānanda bhikṣurye te lābhā dhārmikā dharmalabdhā antaśaḥ pātraparyāpannamātramapi tathārūpairlābhairaprativibhaktabhogī bhavati śīlavadbhiḥ sabrahmacāribhiḥ sādhāraṇabhogī. ayamapi dharmaḥ sāraṇīyaḥ priyakaraṇo gurukaraṇaḥ saṅgrahāyāvivādāya sāmagryā ekībhāvāya saṃvartate.
punaścāparamānanda bhikṣuryāni tāni śīlānyakhaṇḍānyacchidrāṇyaśabalānyakalmāṣāṇi bhujiṣyāṇi vijñapraśastānyaparāmṛṣṭāni samādhisaṃvartanīyāni tathārūpeṣu śīleṣu śīlasāmānyagato viharati sabrahmacāribhirāviścaiva rahaśca. ayamapi dharmaḥ sāraṇīyaḥ priyakaraṇo gurukaraṇaḥ saṅgrahāyāvivādāya sāmagryā ekībhāvāya saṃvartate.
punaścāparamānanda bhikṣuryeyaṃ dṛṣṭirāryā nairyāṇikī niryāti tatkarasya samyagduḥkhakṣayāya tathārūpayā dṛṣṭyā dṛṣṭisāmānyagato viharati sabrahmacāribhirāviścaiva rahaśca. ayamapi dharmaḥ sāraṇīyaḥ priyakaraṇo gurukaraṇaḥ saṅgrahāyāvivādāya sāmagryā ekībhāvāya saṃvartate. ime khalvānanda ṣaṭsāraṇīyā dharmāḥ priyakaraṇā gurukaraṇāḥ saṅgrahāyāvivādāya sāmagryā ekībhāvāya saṃvartante.
imāṃścedyūyamānanda ṣaṭsāraṇīyāndharmānsamādāya vartedhvaṃ paśyatha nu yūyamānanda taṃ vacanapathamaṇuṃ vā sthūlaṃ vā yaṃ yūyaṃ nādhivāsayedhvamiti. no hīdaṃ bhadanta. tasmādihānandemānṣaṭsāraṇīyāndharmānsamādāya vartadhvam. tadvo bhaviṣyati dīrgharātraṃ hitāya sukhāyeti.
idamavocadbhagavān. āttamanā āyuṣmānānando bhagavato bhāṣitamabhyanandīditi.
sāmagrāmasūtraṃ niṣṭhitaṃ caturtham..