You are here: Home » stories » 109
108 
 110

लोकोपकृतिर्न लाघवाय

त्रिजगतीतले प्रतापनिधिरिति विश्रुतः पुरञ्जयो नाम कश्चिदवनिपो जज्ञे इक्ष्वाकुवंशे। मिथो युयुत्सुषु कदाचित्सुरेष्वसुरेषु च साहाय्यमपेक्षमाणो गोत्रभित्तमवनिपालमुपससाद।

“अवेयं त्वामहं शक्र! यद्युक्षभावमुपेत्य मे वाहनं भवेः” इति जगाद स क्षमापतिः।

गोत्वमपमानहेतुं मन्यमानो रोषताम्राक्षः पुरन्दरः क्रुधा ज्वलन्गदाग्रजमुपसृत्य नृपतेर्वच आचख्यौ, “यथाऽयं निरुपाधिं मामवेत्तथा त्वममुं चोदय” इति च ययाचे।

निजचरितं स्मारं स्मारं विहस्य गदाग्रज उवाच—“जगद्धितं चेत् सिसाधयिषसि, तर्ह्युररीकुरुष्वास्य गिरम्। को वात्रापराधः? भुवनमङ्गलार्थं किमु नानुष्ठितं मया? झषकमठकोलाद्यवतारान्बिभ्राणेन मया नापमानकलङ्कलेशोऽपि जातुचिदन्वभावि। तस्मादुज्झितविषादो लोकश्रेयसे वृषरूपमुपेत्य तद्वहनकर्मणि नियुज्यस्व” इति।

मुरवैरिणो गिरं निशम्य व्रीडावनतमुखो बलरिपुस्तथोक्षवपुर्धृत्वा रणाय सन्ननाह। सङ्ग्रामे चास्योक्ष्णः ककुद्येव निषण्णेनामुना पुरञ्जयेन दैतेया निर्जिग्यिरे।

तत एव 'काकुत्स्थ' इत्यमुष्य नामधेयं लोकेषु पप्रथे, तदीयश्चान्वयः काकुत्स्थवंश इति ख्यातिं लेभे। नहि जगद्धिताय प्रारब्धं कर्म जातु लाघवाय कल्पते।

108 
 110
Search
stories/109.txt · Last modified: 2026/03/07 12:02