You are here: Home » stories » 114
113 
 115

कालदूतचतुष्टयम्

उद्विविजे मृत्योः कश्चित्प्राज्ञम्मन्यो नरः। सख्यमेव बबन्ध स कृतान्तेन सार्धम्। एकदा च व्याजहार स कृतान्तम्— “वयस्य! निसर्गसिद्धं खलु तेऽसुहरणकर्म, तस्मान्मास्म हार्षीः मेऽसूनिति न त्वां याचितुमुत्सहे। किन्तु सख्यमुपजीव्यैतावदेव प्रार्थये यदसुहरणात्प्रागेकवारं मां बोधयेरिति।”

“तथास्तु! किमेकेन प्रबोधनेन? त्रिचतुर्वारं त्वां स्मारयिष्यामि” इति प्रतिजज्ञे धर्मराट्।

मुमुदे च तेन भृशमसौ पुमान्, निरर्गलञ्च प्राणान्दिधारयिषुः स्वच्छन्दं चचार। अत्यक्रमुश्च कतिपयहायनानि। अथैकदा तदसून्जिघृक्षुराविर्बभूव तस्य पुरतोऽन्तकः। तमालोक्य विस्मयापन्नः स नरो जगाद— “सखे! विसस्मर्थ किमु सख्यधर्मम्? पूर्वमेवावेद्य खल्वागन्तव्यमासीत्त्वया। इत्थमकाण्ड एवाविर्भावो न ते साधीयान्।”

जगाद तदा यमः— “चतुष्कृत्वः प्रजिघायाहं प्रबोधनदूतान्। परं नाबुध्यथास्त्वं तेषां परमार्थम्।”

“चतुष्कृत्वः प्रजिघयिथ सन्देशान्? दुःश्रद्धेयमद इति स विस्मयाविष्टो जगाद।”

“मत्सन्देशानुपलभ्यापि तत्तात्पर्यमनवबुध्यमानस्त्वमौदासीन्यमेवालम्बिष्ठाः। तत्राहं किं वा करवाणि? प्रथमतस्ते कुन्तलान्पलितान्व्यदधाम्, मदागमनञ्चासन्नमिति त्वामसिस्मरम्। परन्तु तानुपेक्षमाणो रागद्रव्येण प्रलिम्पंस्तारुण्यस्वप्नमेवान्वभूः। ततस्ते दशनानपातयम्। तदापि त्वं कृत्रिमरदान्सङ्घटयन् रसनालौल्यतर्पणार्थमयतिष्ठाः। यदा च ते दृक्शक्तिमम्लापयम्, तदाप्युपनेत्रसाहाय्येन विश्वमालोकितुं प्रायतिष्ठाः। यदा च प्राहिणवं नानाजराव्याधींस्तदापि भेषजपानादिकमेवाकार्षीः। यत्खल्वाचरितव्यं भगवदनुचिन्तनं, यच्चोपार्जयितव्यं सुकृतं, तदखिलमपि नाकार्षीस्त्वम्।”

इदमाकर्ण्य व्रीडावनतशिराः स पुमान्— “प्रसीद, वितरापरमेकमवसरम्, तदा सुकृतोपार्जनं विधास्य इत्ययाचत।”

“अये, चतुष्कृत्वः प्रहितेष्वपि सन्देशेषु प्रमादमेवाचरते तुभ्यं कथं पुनरपरमवसरं वितरेयम्? न खल्विदं शक्यमित्युदीर्य तदसून्प्रसह्य जहारान्तकः।”

113 
 115
Search
stories/114.txt · Last modified: 2026/03/12 15:25